________________
श्रीअनुयोगद्वारसूत्रम् [सू०३६६]
२३३ तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणमट्टे समढे। कम्हा ? जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पजइ, उवरिल्लम्मि तंतुम्मि अच्छिण्णे हेढिल्ले तंतू ण छिज्जइ, अण्णम्मि काले उवरिल्ले तंतू छिज्जइ अण्णम्मि काले हिट्ठिल्ले तंतू छिजति, तम्हा से समए न भवति । एवं वयंतं पण्णवगं चोयए एवं वयासि-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए ? ण भवति । कम्हा ? जम्हा संखेजाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हम्मि कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् । स इत्थम्भूत एकां महतीं पटसाटिकां वा पट्टसाटिकां वा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति सकृत्, झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत् पाटयेदित्यर्थः । तत्रैवं स्थिते प्रेरक: शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमवादीत्, किम् ? येन कालेन तेन तुण्णागदारकेण तस्या: पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मादिति पृष्ट उपपत्तिमाह- यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचका:, पटसाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने तन्तौ अच्छिन्ने अविदारिते हेट्ठिल्ले त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्- येन कालेन तेन तुन्नागदारकेण तस्याः पटसाटिकाया उपरितनस्तन्तुश्छिन्न: स समय: किं भवतीति शेष: । अत्र प्रज्ञापक आहन भवतीति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां लोके प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकमित्याधुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घात:, तेषामनन्तानां संघातानां य: समुदयः संयोगस्तेषां समुदयानां या अन्योन्यानुगतिरसौ समितिः, तासां समागमेन एकवस्तुनिवर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादय:, तस्मादसावुपरितनैकपक्ष्मच्छेदनकाल: समयो न भवति । कस्तर्हि समय इत्याह- एत्तो णमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतर: समय: प्रज्ञप्तो हे! श्रमणायुष्मन्निति ।
अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते, ते च सङ्घाता: क्रमेण छिद्यन्ते, तर्खेकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्खयेयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- असंखेज्जासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org