________________
२३४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
अच्छिणे हेट्ठिल्ले पम्हे न छिज्जति, अण्णम्मि काले उवरिल्ले पम्हे छिज्जति अण्णम्मि काले हेट्ठिल्ले पम्हे छिज्जति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि - जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पन्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे णिप्फज्जइ, उवरिल्ले संघाते अविसंघातिए हेट्ठिल्ले संघाते ण विसंघाडिज्जति, अण्णम्मि का वरिले संघा विसंघातिज्जइ अण्णम्मि काले हेट्ठिल्ले संघाए विसंघादिज्जइ, तम्हा से सम ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो ! |
णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! असंखेज्जा । अता णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अनंता ( ), तदेतत् कथम्, अत्रोच्यते - अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेद: संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, अत एवम्भूताः स्थूलतरसङ्घाता एकस्मिन् पक्ष्मण असङ्ख्येया एव भवन्ति, तेषां च क्रमेण छेदने असङ्खयेयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रेऽनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात्, १०८ सूत्राणां च सूचामात्रत्वादिति । ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्य
१०८. सूत्राणां च सूचामात्रत्वादिति । एतस्मादपि सूत्रादभिप्रेतं सूचनं प्राप्यत एव । तच्चैवं-सूत्रेऽनन्तानां सङ्घातानां समुदयसमितिसमागमेनैकस्य पक्ष्मणो निष्पत्तिः कथिता । तदनन्तरं ‘प्रथमे सङ्घातेऽविसङ्घातिते द्वितीयः सङ्घातो न विसङ्घात्यते' इत्येवं नोक्तं, अपि तु सङ्घातैरवगाढं क्षेत्रमपि यथा संकलितं स्यात्तथा 'उपरितने सङ्घातेऽविसङ्घातित आधस्त्यः सङ्घातो न विसङ्घात्यते' इत्येवमुक्तम् । ततश्च यत एकेन सम्पूर्णेन पक्ष्मणा तदवयवभूतैर्वाऽनन्तैरपि सङ्घातैरवगाढं क्षेत्रमसङ्ख्येयनभः प्रदेशमानमेव, न त्वनन्तनभःप्रदेशमानं, अतः प्रथम उपरितनः सङ्घातो विसङ्घात्यते, तदनन्तरं तदाधस्त्यः, स विसङ्घात्यते... इत्येवंक्रमेण भिन्नभिन्नकाले विसङ्घात्यमानाः सङ्घाता असङ्ख्येया एव प्राप्यन्ते, न त्वनन्ता इति स्पष्टमेव । ततश्च एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते' इत्यादि वृत्तिकारैर्यदुक्तं तत्सूत्रादपि प्राप्तमेव, तद्विवक्षामन्तरेणानन्तानां सङ्घातानामसङ्ख्येयत्वस्यानुपपत्तेः ।
ननु वास्तविकानन्तसङ्घातमयो विवक्षित एकः सङ्घातस्त्वेकेनैव समयेन छिद्यते । ततश्च सूत्रकारैः 'जेणं कालेणं तेण तुण्णागदारएणं तस्स पम्हस्स उवरिल्ले संघाते छिण्णे से समए ' इत्यादिकं सूत्रं कुतो न सूत्रितमिति चेत् ? तस्य सङ्घातस्य अस्मदविषयत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org