________________
श्रीअनुयोगद्वारसूत्रम् [सू०३६६]
२३५ तन्न सूत्रितमिति गृहाण । अयम्भावः-अभिसंधिजवीर्यजन्या या काचिदपि क्रिया छद्मस्थैः क्रियते सा जघन्यतोऽप्यन्तर्मुहूर्तकालीनैव भवति, न कदाचिदप्येकसामयिकी । अपरञ्च छद्मस्थानां निश्चयात्मकः कोऽप्युपयोगोऽन्तर्मुहूर्तकालीन एव भवति, न कदाचिदप्येकसमयमात्रभावी, अत एव सर्वशास्त्रशिरोमणिश्रीकल्पसूत्रे 'चइस्सामित्ति जाणइ, चयमाणे न याणइ, चुएमित्ति जाणइ' इत्यादि कथितम् । च्यवमानस्तु न जानति, च्यवनस्यैकसामयिकत्वेन तज्ज्ञानागम्यत्वात्, जघन्यतोऽपि छाद्मस्थिकज्ञानोपयोगस्यान्तर्मुहूर्तिकत्वाद्' इत्यादि च कल्पकिरणावल्यां व्याख्यातम् । ततश्च विवक्षितः संघातः पक्ष्मतन्त्वादिछेदनान्तर्भूतछेदनस्य विषयो भवितुमर्हति, न कदाचिदपि तदनन्तर्भूततया स्वतन्त्रस्यच्छेदनस्य, अगुलासङ्ख्येयभागमात्रावगाढस्य कस्यचिदपि वस्तुनश्छेदनाद्यविषयत्वात् । तथाऽयमुपरितनः सङ्घातश्छिद्यते... अधुनाऽऽधस्त्यश्छिद्यते... साम्प्रतं तस्मादपि य आधस्त्यः स छिद्यते... इत्यादिज्ञानानां यद्वा 'अयमुपरितनः सङ्घात एतेन (एकसमयप्रमाणेन) कालखण्डेन छिन्नः' इत्यादिज्ञानानां छद्मस्थानामसम्भवः, छाद्मस्थिकस्योपयोगस्य जघन्यतोऽप्यन्तर्मुहूर्तकालीनतयैकस्मिन्नुपयोगे प्रवर्तमान एवासङ्ख्येयानां सङ्घातानां छेदनस्य निःशेषं संपन्नत्वात् । इत्यञ्च विवक्षितः सङ्घातश्छेदनक्रियायाश्छिन्नत्वज्ञानस्य चाविषय इति सिद्धम् । अत एव सूत्रकाराः सङ्घातं यावन्न गता इत्याभाति । यतश्च ते पक्ष्म यावद्गता तेन पक्ष्म, छेदनविषयश्छिन्नत्वज्ञानविषयश्च भवितुमर्हतीति निश्चीयते, पक्ष्मणोऽगुलसङ्ख्येयभागावगाढत्वात्, अगुलसङ्ख्येयभागावगाढे तन्तौ सङ्ख्येयानां पक्ष्मणां 'जम्हा संखेज्जाणं पम्हाणं' इत्यादिना प्रोक्तत्वात्, चक्षुषोपलभ्यमानत्वाच्च । तथाऽऽधुनिकसूक्ष्मदर्शकयन्त्र-तदन्ययन्त्रादिसहायेनैकस्यापि पक्ष्मणश्छेदस्य छिन्नत्वज्ञानस्य च सम्भवो न दुर्जेयः । यतश्चैकस्यापि पक्ष्मणश्छेदस्य सम्भवः, अत एव तत्रान्तर्मुहूर्तं तु लगत्येव, अभिसंधिजवीर्यजन्यायाश्छद्मस्थप्रवृत्तेर्जघन्यतोऽप्येतावत्कालत्वात् । इदमेव मनसिकृत्य 'एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोऽशः समय इति स्थितम्' इत्येवं विशेषण व्याख्यानं कृतमिति ध्येयम् ।
नन्वेवं प्रसिद्धः समयो विभाज्यो वाऽविभाज्यो वा ? इति प्रश्ने 'स्याद्विभाज्यो वा स्यादविभाज्यो वा' इत्येवं स्याद्वादाश्रयणेनोत्तरं देयं भवति । नन्वेतत् कथं ? इत्थंएतत्स्पष्टीकरणार्थं पूर्वमेका कल्पना क्रियते । अधुना येन रूप्यकाख्यनाणकेन क्रयविक्रयादिव्यवहारः प्रवर्तते तज्जघन्यतमोऽशः पैसकं (पैसो इति भाषायां) उच्यते । ततश्च वयं कल्पनां कुर्मः । एकेन पैसकेन तिलानां शतकं प्राप्यते । एवं चणकानां दशकं प्राप्यते । यदा शतं तिलाः क्रेयास्तदैकं पैसकं मूल्यतया देयं भवति । परंतु यदा तदर्धाः पञ्चाशत् तिलाः क्रेया भवेत्तदाप्येकं पैसकमेव मूल्यतया देयं भवति, न तदर्धांशः, तदर्धांशस्य नाणकतयाऽसिद्धत्वात् । एवं यदैक एव तिलः क्रेयः स्यात्, तदापि मूल्यतयैकं पैसकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org