________________
२३६
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
तु देयमेव भवति, न तच्छतांशः, नाणकतयाऽप्रसिद्धत्वात् । एवं पैसकस्य नाणकतया विभागस्या(= अंशस्या ) ऽशक्यत्वादविभाज्यत्वं सिद्धम् । तथापि यदा पञ्चाशत् तिलाः पञ्च च चणकाः क्रेयाः स्युः, तदोभयमूल्यतयैकमेव पैसकं देयं भवति, न तु द्वे पैसके । क्रयणानन्तरं यदि कश्चित्पृच्छति, तदोत्तरमपि 'पैसकार्धेन तिलाः क्रीताः, अर्धकेन च चणकाः' इत्येवं दीयत इति तिलाद्यपेक्षया पैसकस्य विभाज्यत्वमपि सिद्धम् । ततश्च नाणकापेक्षया पैसकं स्यादविभाज्यमेव, तिलाद्यपेक्षया स्याद् विभाज्यमेवेति । एवमेव कालापेक्षया समयः स्यादविभाज्य एव, क्षेत्राद्यपेक्षया तु स्याद् विभाज्य एवेति । तच्चैवं परमाणुपुग्गलेणं भंते लोगस्स पुरच्छिमिल्लातो चरिमंताओ पच्चत्थमिल्लं चरिमंतं एगसमएणं गच्छति ? दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं चरिमंतं, उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं चरिमंतं, उवरिल्लाओ चरिमंताओ हेठिल्लं चरिमंतं, हेठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगेणं समएणं गच्छति ? हंता गोयमा जाव गच्छति ।। इति भगवतीसूत्रे शतक १६ उद्देश ८ ।। त्ति भगवतीसूत्रेण ज्ञायते यद् एकः परमाणुर्लोकस्य सर्वाधस्तनप्रतरादनुश्रेण्या गत्या सर्वोपरितनप्रतरं यावदेकेन समयेन गच्छतीति । यदि स परमाणुस्तिर्यग्लोकं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव, 'तदर्धेन कालखण्डेन तेन सप्तरज्जूमितं तदर्धं क्षेत्रं व्यतिक्रान्तं' इति वक्तुं न पार्यते । एवं यदि स एकां रज्जूं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव । एवं यावत् स एकं नभःप्रदेशमेव यदि व्यतिक्रामेत, तदाप्येकः समयस्तु लगत्येव । तथैकेनैव समयेनाधोलोकस्य सर्वान्तिमप्रतरादूर्ध्वलोकस्य सर्वोपरितनं प्रतरं गच्छन्तं परमाणुमुद्दिश्य केवलज्ञान्यपि 'अधुना स तिर्यग्लोकं प्राप्त, अथ च ब्रह्मलोकं प्राप्तः... साम्प्रतं सिद्धशिलां प्राप्तः...' इत्यादिविभागेन ज्ञातुं नैव समर्थः । इत्थञ्च समयस्य निरंशत्वसिद्ध्या स्यादविभाज्यत्वमेव, कालापेक्षया तद्विभागस्यासम्भवात् ।
अथ क्षेत्रापेक्षया यदि विचार्यते, तदा तस्य विभाज्यत्वमपि ज्ञायत एव । तच्चैवं द्वे एव द्रव्ये गतिशीले, पुद्गलो जीवश्चेति । तत्र पुद्गलः स्पर्शवानेव । जीवस्तु स्पर्शवानपि, स्पर्शशून्योऽपि । कर्मयुक्तो जीवस्तैजसकार्मणादिपुद्गलैः क्षीरनीरवद् व्याप्ततया कथञ्चिन्मूर्तत्वेन स्पर्शवान् व्यवह्रियते । कर्ममुक्तस्त्वमूर्ततया स्पर्शशून्य एव । अतो निर्वाणस्थानात् सिद्धशिलां प्रति कर्ममुक्तस्य जीवस्य यैकसामायिक्यनुश्रेणिर्गतिर्भवति सा 'अस्पृशतो द्रव्यस्य गतिरस्पृशद्गतिरिति व्युत्पत्त्या 'अस्पृशद्गतिः' उच्यते । तद्भिन्ना तु या कापि जीवस्य पुद्गलस्य वा गतिर्भवति सा सर्वाऽपि स्पृशद्गतिरेव, अन्यथा कर्ममुक्तस्य जीवस्य गतेरस्पृशद्गतित्वकथनस्यानतिप्रयोजनत्वापत्तेः । अतो लोकस्य सर्वाधस्तनप्रतरात् सर्वोपरितनप्रतरं यावत्परमाणोर्या गतिर्भवति सापि स्पृशद्गतिरेवेति 'तच्छ्रेणिगतान् सर्वान् नभःप्रदेशान् स्पृष्ट्वा स परमाणुर्गतः' इति मन्तव्यमेव । किञ्चैकयैव हेलया तु स परमाणुस्तच्छ्रेणिगतान् स्वावगाढ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org