________________
श्री अनुयोगद्वारसूत्रम् [सू०३६७]
२३७
(सू० ३६७) असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवच्च । संखेज्जाओ आवलियाओ ऊसासो । संखेज्जाओ आवलियाओ नीसासो । हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो ।
एगे ऊसास - नीसासे एस पाणु त्ति वुच्चति ॥ १०४ ॥ सत् पाणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए || १०५।।
माणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् तो वि णं सुहुमतराए समए इति सामान्येनैवोक्तवानिति एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोंऽशः समय इति स्थितम् । युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभःप्रदेशान् विलङ्घयाचिरेणैवेष्टदेशप्राप्तेर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरेवेष्टदेशं प्राप्नुयात्, अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा (आवश्यकनि०३७) इत्यादिवचनादिति भावः । न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद् । उक्तं च
आगमश्चोपपत्तिश्च सम्पूर्णं विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ||२|| तदव्यवहितोर्ध्वाधोवर्तिलक्षणान् त्रीनेव नभःप्रदेशान् स्पृशतीति 'सर्वान् तच्छ्रेणिगतान् नभःप्रदेशान् स क्रमेण स्पृशति, न युगपद्' इत्यपि मन्तव्यमेव । अत्र क्रमः क्षेत्रापेक्षयैव ज्ञेयः, न तु कालापेक्षया, समयस्य ‘अयं पूर्वार्धः, एष पश्चार्धः' इत्यादिविभागाभावात् । ततश्च चतुर्दशरज्जुमितायां तस्यां श्रेण्यां यावन्तो नभःप्रदेशास्तावन्तः समयस्य क्षेत्रापेक्षया विभागा मन्तव्या एव, एकेन समयेन परमाणुना तेषां क्रमशः स्पृष्टत्वात् । एवञ्च क्षेत्रापेक्षया समयस्य विभाज्यत्वे सिद्धे सिद्धमेव ‘समयः स्यादविभाज्य एव स्याद्विभाज्य एवेत्युत्तरम् । सूक्ष्मेक्षिकया विचारणीयमेतदिति । तथा यतः कालापेक्षयाऽविभाज्यस्यापि समयस्य क्षेत्रापेक्षया विभाज्यत्वम्, अतः कालापेक्षया क्षेत्रस्यान्यत्रावश्यकनिर्युक्त्यादौ सुहुमो य होई कालो, तत्तो सुहुमतरं हवइ खित्तं । अंगुलसेढीमेत्ते ओसप्पिणीओ असंखेज्जाओ ||३७ // इत्यादिना कथितं सूक्ष्मत्वमप्युपपन्नं भवतीति ध्येयम् । नाणकतयाऽविभाज्यस्यापि पैसकस्य तिलापेक्षया विभाज्यत्वेन यथा पैसकापेक्षया तिलस्य सूक्ष्मत्वं तथैव प्रस्तुतेऽपि ज्ञेयम् । 'स्पृशतो द्रव्यस्य गतिः स्पृशद्गति 'रित्यादि व्युत्पत्तिरत्राश्रिता । अन्यत्र स्पृशदस्पृशद्गत्योरन्यापि परिभाषा दृश्यत इति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org