SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं तिण्णि सहस्सा सत्त य सयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं ॥१०६॥ एतेणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई वाससयसहस्साइं से एगे पुव्वंगे, चउरासीतिं पुव्वंगसतसहस्साई से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइं से एगे तुडियंगे, चउरासीइं तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीई अडडंगसयसहस्साइं से एगे अडडे, चउरासीइं अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साइं से एगे अववे, चउरासीति अववसतसहस्साइं से एगे हूहुयंगे, चउरासीइं हूहुयंगसतसहस्साइं से एगे हुहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका। साऽन्वय-व्यतिरेकादिलक्षणा सूरिभिः कृता ।।३।। ( ) इति । निदर्शितं चेहोभयमपीत्यलं विस्तरेण । शेषं गतार्थं यावत् हट्ठस्स गाहा, हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तो: मनुष्यादेरेक उच्छ्वासयुक्तो नि:श्वास: उच्छ्वासनि:श्वासः, एष प्राण उच्यते, शोक-जरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वास: त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् । सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपा: स एकः स्तोकः, सप्त स्तोका: स एको लव:, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपित मुहूर्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाह- तिण्णि सहस्सा गाहा, अस्या भावार्थ:- सप्तभिरुच्छ्वासैरेक: स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्वे सप्त प्रोक्ताः, तत: सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लॅवे एकोनपञ्चाशदुच्छ्वासा: सिद्धा:, एकस्मिंश्च मुहूर्ते लवा: सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनि:श्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात् । अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषा: प्राक्कालानुपूर्व्यामेव निर्णीतार्थाः । एताव ताव गणिए इत्यादि, एतावत् शीर्षप्रहेलिकापर्यन्तमेव तावद् गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy