SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३९ श्रीअनुयोगद्वारसूत्रम् [सू०३६८-३७१] अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीतिं चूलियासतसहस्साई से एगे सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतो परं ओवमिए । (सू० ३६८) से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते । तंजहा-पलिओवमे य सागरोवमे य। (सू० ३६९) से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते। तंजहाउद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । (सू० ३७०) से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । तंजहासुहुमे य वावहारिए य ।। (सू० ३७१) तत्थ णं जे से सुहमे से ठप्पे । न परत इति भाव: । एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः । अत: परं सर्वमौपमिकम् । तदेव निरूपयितुमाह - से किं तं ओवमिए इत्यादि । उपमया निवृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । तच्च द्विधा- पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूप:, तेनोपमा यस्मिन् तत् पल्योपमम्, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत् सागरोपमम्, तच्च पल्योपमं त्रिधा- तद्यथाउद्धारपलिओवमे येत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम् अपोद्धरणमपहरणमुद्धारः, तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् । तथा अद्धेति काल:, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायु:काल: प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमम्। तथा क्षेत्रम् आकाशम्, तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । तत्राद्यं निरूपयितुमाह- से किं तं उद्धारपलिओवमे इत्यादि । उद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथा- वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्यावहारिकं चेति । तत्र यत् तत् सूक्ष्मं तत् स्थाप्यम्, तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया:, पश्चात् प्ररूपयिष्यते इति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy