________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ३७२) तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया - जोयणं आयामविक्खंभेणं, जोयणं उड्ड उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं एगाहिय - बेहियतेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्ठे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी हेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेजा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतिएणं काणं से पल्ले खीणे नीरए निल्लेवे णिट्टिते भवति, सेतं वावहारिए उद्धारपलिओवमे ।
२४०
एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिता ।
तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ।। १०७ ।।
तत्र यत्तद् व्यावहारिकमुद्धारपल्योपमं ' तदिदम्' इति शेष:, तदेव विवक्षुराह - से जहानामए इत्यादि । तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायाम - विष्कम्भाभ्यां दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनम्, ऊर्ध्वमुच्चत्वेनापि ( योजनम् ) । तद्योजनं त्रिगुणं सविशेषं परिरयेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्न्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । स पल्य: एक्वाहिय-बेहिय-तेहिय त्ति षष्ठीबहुवचनलोपादेकाहिक-द्व्याहिक-त्र्याहिकीनामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः । तत्र मुण्डिते शिरस्येकेनाह्ना यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता द्व्याहिक्यः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह- संमृष्ट आकर्णं पूरितः, सन्निचित: प्रचयविशेषान्निबिडीकृतः । किं बहुना ? एवं
asia तानि वालाग्राणि नाग्निर्दहेत्, न वायुरपहरेत्, अतीव निचितत्वादग्नि- पवनावपि न तत्र क्रामत इत्यर्थः । नो कुच्छेज्ज त्ति नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावात्, वायोरसम्भवाच्च नासारतां गच्छेयुः अत एव च नो परिविद्धंसेज्ज त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च नो पूइत्ताए हव्वमागच्छेज्ज त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः, न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः, तओ णं ति तेभ्यो वालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य 'कालो मीयते' इति शेषः, ततश्च जावइएणमित्यादि, यावता कालेन स पल्य: क्षीणो वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति निर्गतरजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरज: कोष्ठागारवत्, तथा निल्लेवे त्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दा: अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति एतच्च पल्यान्तर्गत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org