________________
श्रीअनुयोगद्वारसूत्रम् [सू०३७३,३७४]
२४१ (सू० ३७३) एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं किं पयोयणं ? एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं णत्थि किंचि पओयणं, केवलं तु पण्णवणा पण्णविजति । सेतं वावहारिए उद्धारपलिओवमे ।।
(सू० ३७४) से किं तं सुहुमे उद्धारपलिओवमे ? उद्धारपलिओवमे से जहानामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उड्डे उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेहिय-तेहिय० उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्टे सन्निचिते भरिते वालग्गकोडीणं। तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुच्छेजा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति, सेतं सुहुमे उद्धारपलिओवमे ।
एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया ।
तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं ॥१०८।। वालाग्राणां सङ्ख्येयत्वात् सङ्ख्येयै: समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि निगमनम् ।
व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह- एएसिं पल्लाणं गाहा । एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं भवतीति तात्पर्यम् । शिष्य: पृच्छति- एतैर्व्यावहारिकपल्योपम-सागरोपमैः किं प्रयोजनम् ? कोऽर्थ: साध्यते ? अनोत्तरम्नास्ति किञ्चित् प्रयोजनम् । निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामानं क्रियत इत्यर्थ: । ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ? अतो यत् किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानात्, एवं हि मन्यते- बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद्, अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति । तर्हि नास्ति किञ्चित् प्रयोजनमित्ययुक्तं प्राप्नोतीति चेत्, नैवम्, एतावत: प्रयोजनस्याल्पत्वेनाविवक्षितत्वात्, एवं बादराद्धापल्योपमादावपि वाच्यम् ।
से किं तं सुहमे इत्यादि गतार्थमेव यावत् तत्थ णं एगमेगे वालग्गे असंखेजाइमित्यादि, पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org