________________
२४२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० ३७५) एएहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति ।
(सू० ३७६) केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता ? गो० ! जावइया णं अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवतिया णं दीव-समुद्दा उद्धारेणं पण्णत्ता। सेतं सुहमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे ।
(सू० ३७७) से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । तंजहासुहुमे य वावहारिए य ।
(सू० ३७८) तत्थ णं जे से सुहुमे से ठप्पे ।
(सू० ३७९) तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयामविक्खंभेणं, जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहियबेहिय-तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेजा, नो वाऊ तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनात: असङ्ख्येयभागमात्राणि, दृष्टिः चक्षुरोत्पन्नदर्शनरूपा, साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु इह दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्येयभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि। इदमुक्तं भवति- यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थ: पश्यति तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति ।
द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहुमस्सेत्यादि । अयमत्र भावार्थ:- सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति । बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वालाग्रखण्डानामसङ्ख्येयत्वात् प्रतिसमयमुद्धारे किल सङ्ख्येया वर्षकोट्योऽतिक्रामन्ति, अत: सङ्ख्येयवर्षकोटिमानमिदमवसेयम् । शेषं तूक्तार्थप्रायं यावत् जावइया अट्ठाइजाणं उद्धारसागरोवमाणमित्यादि, यावन्तोऽर्द्धतृतीयसागरोपमेषु उद्धारसमया वालाग्रोद्धारोपलक्षिता: समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीप-समुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ता:, असङ्ख्येया इत्यर्थः ।
उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह- से किं तं अद्धापलिओवमे इत्यादि । इदमप्युद्धारपल्योपमवत् सर्वं भावनीयम् । नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्येया वर्षकोट्योऽवसेया:, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ।
यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता ? स्थीयते नारकादिभवेष्वनयेति स्थिति: आयु:कर्मानुभवपरिणति:। इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत् सामान्येनावस्थिति: कर्मशास्त्रेषु स्थिति: प्रतीता (ग्रन्थाग्रं ४०००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org