________________
२०४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३१७) से किं तं माणे ? माणे दुविहे पण्णत्ते । तंजहा-धनमाणप्पमाणे य १, रसमाणप्पमाणे य २ ।
(सू० ३१८) से किं तं धण्णमाणप्पमाणे ? धण्णमाणप्पमाणे- दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढयाई दोणो, सढि आढयाई जहन्नए कुंभे, असीति आढयाई मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्ठआढयसतिए वाहे ।
(सू० ३१९) एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एतेणं धण्णमाणप्पमाणेणं मुत्तोली-मुरव-इड्डर-अलिंद-अपवारिसंसियाणं धण्णाणं धण्णमाणप्पमाणनिव्वित्तिलक्खणं भवति । सेतं धण्णमाणप्पमाणे ।
(सू० ३२०) से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे धण्णमाणप्पमाणाओ चउभागविवड्डिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिजति । तंजहा-चउसट्ठिया ४, निरूपयिष्यते, अपि तु दो असतीओ पसती इत्यादिको यो विशिष्टः प्रकारस्तेनेति । ___तच्च पञ्चविधम्, तद्यथा- मानम् उन्मानम् अवमानं गणिमं प्रतिमानम्। पुनरपि मानप्रमाणं द्विधा- धान्यमानप्रमाणं च रसमानप्रमाणं च । तत्र मानमेव प्रमाणं मानप्रमाणम्, धान्यविषयं मानप्रमाणं धान्यमानप्रमाणम्, तच्च दो असतीओ इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति: अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तवयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृति:, द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वात्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्या, चतस्र: सेतिका: कुडवः, ते चत्वार: प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव यावदष्टभिराढकशतैर्निर्वृत्तो वाहः । ___ अत्राह शिष्यः- एतेन असत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयते इत्यर्थः । अत्रोत्तरम्- एतेन धान्यमानप्रमाणेन मुक्तोली-मुरवेड्डरा-ऽलिन्दा-ऽपवारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः । तत्र मुक्तोली मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्ठिका मुरवः, गन्त्र्या उपरि यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि तदिड्डरम्, अलिन्दकं कुण्डकम्, अपवारि दीर्घतरधान्यकोष्ठाकारविशेष:।
रसमानप्रमाणमाह- से किं तमित्यादि, रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणम्, किमित्याह- धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org