________________
श्रीअनुयोगद्वारसूत्रम् [सू०३२१-३२२]
२०५ बत्तीसिया ८, सोलसिया १६, अट्ठभाइया ३२, चउभाइया ६४, अद्धमाणी १२८, माणी २५६ । दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्ठभातिया, दो अट्ठभाइयाओ चउभाइया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी।
(सू० ३२१) एतेणं रसमाणप्पमाणेणं किं पओयणं? एएणं रसमाणप्पमाणेणं वारगघडग-करग-किक्किरि-दइय-करोडि-कुंडियसंसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । सेतं रसमाणप्पमाणे । सेतं माणे ।
(सू० ३२२) से किं तं उम्माणे ? उम्माणे जण्णं उम्मिणिजइ । तंजहा-अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो । दो अद्धकरिसा करिसो, दो यद् रसमानं विधीयते क्रियते तद् रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात् किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवः, अतो बहि:शिखाऽभावात् धान्यमानाच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम्, तद्यथा- चतुःषष्टिकेत्यादि । इदमुक्तं भवति- षट्पञ्चाशदधिकशतद्वयपलमाना माणिका नाम वक्ष्यमाणं रसमानम्, तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलपरिमाणा अष्टभागिका, तस्या एव चतुर्थभागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका । द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ? अत्रोत्तरम्- एतेन रसमानप्रमाणेन वारक-घटक-करकगर्गरी-दृतिक-करोडि-कुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणं परिज्ञानं भवति । तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, शेष प्रतीतम्, क्वचित् कलसिकेति दृश्यते, तत्र लघुतर: कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम्। सेतमित्यादि निगमनद्वयम् ।
अथोन्मानमभिधित्सुराह - से किं तं उम्माणे इत्यादि । उन्मीयते तदित्युन्मानम्, उन्मीयते अनेनेति वा उन्मानमित्यादि । तत्र कर्मसाधनपक्षमधिकृत्याह- जं णं उम्मिणिज्जईत्यादि, यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथा- अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भाग: कर्षः, पलस्यार्द्धम् अर्द्धपलमित्यादि सर्वं मागधदेशप्रसिद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org