________________
२०६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो।
(सू० ३२३) एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्तअगलु-तगर-चोयय-कुंकुम-खंड-गुल-मच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति । सेतं उम्माणपमाणे ।
(सू० ३२४) से किं तं ओमाणे ? ओमाणे जण्णं ओमिणिजति। तंजहा-हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा ।
दंडं धणू जुगं णालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जु वियाण ओमाणसण्णाए ॥१३॥ वत्थुम्मि हत्थ मिजं खित्ते दंडं धणुं च पंथम्मि ।
खायं च नालियाए वियाण ओमाणसण्णाए ॥१४॥ सूत्रसिद्धमेव, नवरम् एलापत्र-कर्मारीपत्रादिकं पत्रम्, चोयओ फलविशेषः, मच्छण्डिका शर्कराविशेष:।
अवमानं विवक्षुराह - से किं तं ओमाणे इत्यादि । अवमीयते परिच्छिद्यते खाताद्यनेनेति अवमानं हस्त-दण्डादि, अथवा अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादि । तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- जं णमित्यादि, यदवमीयते खातादि तदवमानम्, केनावमीयते इत्याह- हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गुलमानः, अनेन च हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्ड-धनु-र्युग-नालिका-ऽक्ष-मुशलरूपाः षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः । दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तम् । दशभिर्नालिकाभिर्निष्पन्नां रज्जु च विजानीयवमानसंज्ञयेति गाथार्थः ।
ननु यदि दण्डादय: सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह- वत्थुम्मि गाहा, वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्ध:, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्, पथि मार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनु:संज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भाव: । खातं च कूपादि नालिकयैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org