________________
श्रीअनुयोगद्वारसूत्रम् [सू०३२५-३२८]
२०७ (सू० ३२५) एतेणं ओमाणपमाणेणं किं पओयणं? एतेणं ओमाणप्पमाणेणं खायचिय-करगचित-कड-पड-भित्ति-परिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं ओमाणे ।
(सू० ३२६) से किं तं गणिमे ? गणिमे जण्णं गणिज्जति । तंजहा-एक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साई कोडी।
(सू० ३२७) एतेणं गणिमप्पमाणेणं किं पओयणं? एतेणं गणिमप्पमाणेणं भितगभिति-भत्त-वेयण-आय-व्वयनिव्विसंसियाणं दव्वाणं गणिमप्पमाणनिवित्तिलक्खणं भवति । सेतं गणिमे ।
(सू० ३२८) से किं तं पडिमाणे ? पडिमाणे जण्णं पडिमिणिज्जइ। तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममासओ। बारस कम्ममासया मंडलओ, एवं अडयालीसाए (कागणीए) मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसठ्ठीए (कागणीए) सुवण्णो । यष्टिविशेषरूपया मीयत इति गम्यते । एवं युगादेरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्यः । यत् कथंभूतं हस्त-दण्डादिकमित्याह- अवमानसंज्ञयोपलक्षितमिति गाथार्थः। ___ एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं कूपादि, चितं त्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितं करपत्रविदारितं काष्ठादि, कटादय: प्रतीता एव, परिक्षेपो भित्त्यादेरेव परिधि: नगरपरिखादिर्वा, एतेषां खातादिसंश्रितानामभेदेऽपि भेदकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति । तदेतदवमानमिति निगमनम् । __से किं तं गणिमे इत्यादि, गण्यते सङ्ख्यायते वस्त्वनेनेति गणिमम् एकादि, अथवा गण्यते सङ्ख्यायते यत्तद्गणिमं रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह- जण्णमित्यादि, गण्यते तद् गणिमम्, कथं गण्यते इत्याह- एक्को इत्यादि । __ एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक: कर्मकरः, भृति: पदात्यादीनां वृत्तिः, भक्तं भोजनम्, वेतनकं कुविन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आय-व्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतद् गणिममिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org