________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ३२९) एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं पडिमाणप्पमाणेणं सुवण-रजत-मणि- मोत्तिय संख-सिल-प्पवालादीणं दव्वाणं पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं पडिमाणे । सेतं विभागनिप्फण्णे । सेतं दव्वपमाणे । ( सू० ३३० ) से किं तं खेत्तप्पमाणे ? खेत्तप्पमाणे दुविहे पण्णत्ते । तं जहा - पदेसणिप्फण्णे य १ विभागणिप्फण्णे य २ ।
२०८
( सू० ३३१ ) से किं तं पदेसणिप्फण्णे ? पदेसणिप्फण्णे- एगपदेसोगाढे दुपदेसोगाढे जाव संखेज्जपदेसोगाढे असंखिज्जपदेसोगाढे । सेतं पएसणिप्फण्णे ।
( सू० ३३२ ) से किं तं विभागणिप्फण्णे ? विभागणिप्फण्णे
I
अथ प्रतिमानप्रमाणं निरूपयितुमाह से किं तं पडिमाणे इत्यादि । मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम् । तत्र गुञ्जा चणोठिया १, सपादा गुञ्जा काकणी २, सत्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पावः ३, त्रयो निष्पावा: कर्ममाषकः ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एकः सुवर्ण: ६ । अमुमेवार्थं किञ्चित् सूत्रेऽप्याह- पंच गुंजाओ इत्यादि, पञ्च गुञ्जा एक: कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एक: कर्ममाषकः । इदमुक्तं भवति - अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति । एवं चक्क कम्ममासओ इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम्, ते द्वादश कर्ममाषका एको मण्डलक:, एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको 'भवति' इति शेष:, भावार्थ: पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थ: स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थम्, नवरं रजतं रूप्यम्, मणय: चन्द्रकान्तादय:, शिला राजपट्टकः, गन्धपट्ट इत्यन्ये । शेषं प्रतीतं यावत् तदेतत् प्रतिमानप्रमाणम्, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ।
अथ क्षेत्रप्रमाणमभिधित्सुराह से किं तं खेत्तप्पमाणे इत्यादि । इदमपि द्विविधम् (प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र) प्रदेशा इह क्षेत्रस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । विभागः पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नम् । तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभि: क्षेत्र प्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया । प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान (ण) त्वादिति । विभाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org