________________
श्रीअनुयोगद्वारसूत्रम् [सू०३३३,३३४]
२०९ अंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयण सेढी पयरं लोगमलोगे वि य तहेव ॥ ९५।।
(सू० ३३३) से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते । तंजहा-आयंगुले १, उस्सेहंगुले २, पमाणंगुले ३ । ___ (सू० ३३४) से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाइं पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । निष्पन्नं त्वङ्गुलादि, तदेवाह- अंगुल विहत्थि गाहा । अङ्गुलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति ।
तत्राङ्गुलस्वरूपनिर्धारणायाह- से किं तं अंगुले इत्यादि। अङ्गुलं त्रिविधं प्रज्ञप्तम्, तद्यथाआत्माङ्गुलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलम् । तत्र ये यस्मिन् काले १०१भरत-सगरादयो मनुष्या: प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह- जे णमित्यादि, ये भरतादय: प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेष:, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम् । अनेनैवात्मागुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अंगुलेणं दुवालसेत्यादि, यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुष: प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलैर्नवभिर्मुखैरष्टोत्तरं शतमगुलानां संपद्यते, ततश्चैतावदुच्छ्रय: पुरुष: प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाहद्रोणिक: पुरुषो मानयुक्तो भवति, द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो य: पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेन जलस्योनां वा तां पूरयति स द्रोणिक: पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाह- सारपुद्गलरचितत्वात् तुलारोपित: सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति । तत्रोत्तमपुरुषा यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च
१०१. भरतसगरादय इत्यादि । ननु यदा भरतादिसदृशानामुत्तमपुरुषाणामभावस्तदा का व्यवस्था ? अयमस्माकमाशयः-यत्काले बहूनां यूनां साधारणः सहज उच्छ्रयः सप्तहस्तप्रमाणो भवति, तदाऽऽत्मागुलेनाष्टोत्तरशतागुलमानोऽप्येकः पुरुषः षड्ढस्तप्रमाणोच्छ्रयो यदि भवेत्, तर्हि किं स प्रमाणयुक्त उच्येत न वा ? शृण्वत्रोत्तरं- येऽष्टोत्तरशतागुलमानाद्धीना अधिका वा तेषां स्वरादिशेषलक्षणवत्त्व एवोत्तमत्वमग्रे वक्ष्यते । ये त्वष्टोत्तरशताङ्गुलमाना एव तेषां स्वरादीनां न कोऽपि विचारः करिष्यते । अतो निश्चीयते यदष्टोत्तरशतागुलमानास्तूत्तमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org