________________
२१०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
माणुम्माण- पमाणजुत्ता लक्खण- वंजण- गुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ॥९६॥
पुण अहियपुरिसा असतं अंगुलाण उव्विद्धा । छण्णउति अहमपुरिसा चउरुत्तर मज्झिमिल्ला उ ।।१७।। हणा वा अहिया वा जे खलु सर-सत्त-सारपरिहीणा ते उत्तमपुरिसाणं अवसा पेसत्तणमुर्वेति ॥ ९८ ॥
सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह - माणुम्माण गाहा । अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाः चक्रवर्त्यादयो मुणितव्या इति सम्बन्ध:, तथा लक्षणानि शङ्खस्वस्तिकादीनि, व्यञ्जनानि मष - तिलकादीनि, गुणाः क्षान्त्यादयः, तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः ।
अथात्माङ्गुलेनैवोत्तम-मध्यमा -ऽधमपुरुषाणां प्रमाणमाह- हुति पुण गाहा, भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमङ्गलानाम् उव्विद्धा उन्मिता उच्चैस्त्वेन, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, चउरुत्तर मज्झिमिल्ला उत्ति तेनैवाङ्गुलेन चतुरुत्तरमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ।
ये अष्टोत्तरशताङ्गुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह- हीणा वा गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा अधिका वा ये खलु, स्वरः सकलजनादेयत्व-प्रकृतिगम्भीरतादिगुणालङ्कृतो ध्वनिः, सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेष:, तैः परिहीणाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयान्ति । स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं न केवलमिति लक्ष्यते, भरतचक्रवर्त्यादीनां स्वाङ्गुल विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गुलप्रमाणत्वात् । भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम् -
एव भवन्ति । न चोत्तमानां तत्तत्कालीनस्वाभाविकोच्छ्रयापेक्षया हीनोच्छ्रयत्वं सम्भवति । ततश्चात्माङ्गुलेनाष्टोत्तरशतमानत्वे तत्कालीनस्वाभाविकोच्छ्रयाऽपेक्षया हीनोच्छ्रयत्वं प्रायो न सम्भवतीति वयं सम्भावयामः । तथापि तत्सम्भवे तत्पुरुषस्याङ्गुलं नात्माङ्गुलत्वेन ग्राह्यमिति तु स्पष्टमेव । यस्यात्माङ्गुलेनाष्टोत्तरशतमान उच्छ्रयस्तत्कालीनस्वाभाविकोच्छ्रयतुल्यो भवेत्तस्यैवाङ्गुलमात्माङ्गुलमिति मन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org