________________
२११
श्रीअनुयोगद्वारसूत्रम् [सू०३३५,३३६]
(सू० ३३५) एतेणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्खमुसले, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं ।।
(सू० ३३६) एएणं आयंगुलप्पमाणेणं किं पओयणं ? एतेणं आयंगुलप्पमाणेण जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं अगड-दह-नदी-तलागवावी-पुक्खरणि-दीहिया-गुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुजाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवा-थूभ-खाइयपरिहाओ पागार-ऽट्टालग-चरिय-दार-गोपुर-तोरण-पासाद-घर-सरण-लेण-आवण
अस्थिष्वर्थाः सुखं मांसे त्वचि भोगा: स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥ ( ) इति गाथार्थः ।
एतेनाङ्गुलप्रमाणेन षडङ्गुलानि पादः, पादस्य मध्यतलप्रदेश: षडङ्गुलविस्तीर्णः पादैकदेशत्वात् पादः, द्वौ च युग्मीकृतौ पादौ वितस्ति: । द्वे च वितस्ती रत्नि:, हस्त इत्यर्थः । रनिद्वयं कुक्षि: । प्रत्येक कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्ड-धनु-युग-नालिका-ऽक्षमुशललक्षणा भवन्ति, तत्राक्षो धू:, शेषाश्च गतार्थाः, द्वे धनु:सहस्रे गव्यूतम्, चत्वारि गव्यूतानि योजनम् ।
एतेणं आयंगुलप्पमाणेणं किं पओयणमित्यादि गतार्थम्, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेन स्वकीयकालसम्भवीन्यवट-हृदादीनि मीयन्त इति सण्टङ्कः । तत्र अवट: कूप: । तडाग: खानितो जलाशयविशेष: । वाप्य: चतुरस्रा जलाशयविशेषाः । पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा । दीर्घिका: सारिण्यः। सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते । सरः स्वयंसम्भूतो जलाशयविशेष एव। सरपंतियाउ त्ति पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः। सरसरपंतियाउ त्ति यासु सर:पङ्क्तिष्वेकस्मात् सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ता: सर:सर:पङ्क्तय: । बिलपङ्क्तय: प्रतीता: । माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामा: । पुष्प-फलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि । सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्य: परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्य: पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि । एकजातीयवृक्षाकीर्णानि वनानि । अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि । एकजातीयानामितरेषां वा शाखिनां पङ्क्तयो वनराजयः । सन्तो भजन्त्येतामिति सभा पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा । अध उपरि च समखातरूपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org