________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
सिंघाडग-तिय- चउक्क - चच्चर - चउमुह - महापह - पहा सगड - रह जाण - जुग्ग- गिल्लि - थिल्लि सीय- संदमाणिय- लोही- लोहकडाह - कडुच्छु य- आसण-सतण-खंभ- भंडमत्तोवगरणमादीणि अज्जकालिगाई च जोयणाई मविज्जंति ।
( सू० ३३७ ) से समासओ तिविहे पण्णते । तंजहा - सूतिअंगुले १, पयरंगुले २, घणं ३ | अंगुलायता एगपदेसिया सेढी सूइअंगुले १, सूयी सूयीए गुणिया पयरंगुले २, पयरं सूईए गुणितं घणंगले ३ ।
२१२
,
खातिका | अधः सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा । प्राकारोपरि आश्रयविशेषाः अट्टालका: । गृहाणां प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका । प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि । राज्ञां देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादा: । गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि । लयनानि उत्कीर्णपर्वतगृहाणि, गिरिगुहा वा, कार्पटिकाद्यावासस्थानं वा । आपणा हट्टा: । नानागृहाध्यासितस्त्रिकोणो भूभागविशेष: शृङ्गाटकम् स्थापना 4, त्रिपथसमागमो वा शृङ्गाटकम्, त्रिकं तु त्रिपथसमागम एव, तद्यथा । प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा चतुष्पथसमागम वा चतुष्कम् । चत्वरं चतुष्पथसमागम एव + षट्पथसमागमो वा चत्वरम् । चतुर्मुखदेवकुलिकादि चतुर्मुखम् । महान् राजमार्गो महापथः, इतरे पन्थानः । देवकुल- सभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते । शकटं गड्डकादि । रथो द्विधा - यानरथः सङ्ग्रामरथश्च, तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः । यानं गन्त्र्यादि । जुग्गत्ति गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानम् | गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । थिल्लित लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः । संदमणिय त्ति पुरुषप्रमाणायामो जम्पानविशेष एव । लोहि त्ति लोही मण्डकादिपचनिका कविल्ली। लोहकडाह त्ति लोहमयं बृहत्कडिल्लम् । भाण्डं मृन्मयादिभाजनम् । मात्र: कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः । उपकरणं त्वनेकविधं कट-पिटक - शूर्पादिकम् । शेषं तु यदिह क्वचित् किञ्चिन्न व्याख्यातं तत् सुगमत्वादिति मन्तव्यम् । तदेवमात्मागुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः ।
इदं चात्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम् । तत्र दैर्घ्येणाङ्गुलायता बाहल्यतस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org