________________
श्री अनुयोगद्वारसूत्रम् [सू०३३८-३४२]
२१३
( सू० ३३८ ) एतेसि णं भंते ! सूतिअंगुल - पयरंगुल-घणंगुलाण य कतरे कतरेहिंतो अप्पे वा बहु वा तुले वा विसेसाहिए वा ? सव्वत्थोवे सूतिअंगुले, पतरंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे । सेतं आयंगुले ।
( सू० ३३९ ) से किं तं उस्सेहंगुले ? उस्सेहंगुले अणेगविहे पण्णत्ते । तंजहापरमाणू तसरेणू रहरेणू अग्गयं च वालस्स ।
लिक्खा जूया य जवो अट्ठगुणविवड्ढिया कमसो ॥ ९९ ॥
( सू० ३४० ) से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहा - सुहुमे य १, हारि २ ।
( सू० ३४१ ) तत्थ णं जे से सहमे से ठप्पे ।
(सू० ३४२) से किं तं वावहारिए ? वावहारिए - अणंताणं सुहुमपरमाणुपोग्गलाणं सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा-18], सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसङ्ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचितयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना-, प्रतरश्च सूच्या गुणित दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्घ्य - विष्कम्भाभ्यामेव समं न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः । इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता (प्त) विंशतिप्रदेशात्मकम्, पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् । एषां च स्थापना [२७] अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्य - विष्कम्भ - पिण्डैस्तुल्यमिदमापद्यते । एएसं णं भंते इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतः सुखावसेयैव । तदेतदात्माङ्गुलमिति ।
अथोत्सेधाङ्गुलनिर्णयार्थमाह से किं तं उस्सेहंगुले इत्यादि । उत्सेधः अनंताणं सुहुमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम्, तच्च कारणस्य परमाणु-त्रसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तम्, तदेव कारणानेकविधत्वं दर्शयति - तद्यथेत्यादि । परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह - से किं तं परमाणू इत्यादि । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो व्यावहारिकश्च तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः । से किं तं वावहारिए इत्यादि, कियद्भिः पुनः सूक्ष्मैर्नैश्चयिकपरमाणुभिरेको व्यावहारिक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org