________________
२१४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति ।
(सू० ३४३) (१) से णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा? हंता ओगाहेजा। से णं तत्थ छिज्जेज वा भिज्जेज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमति ।
(२) से णं भंते ! अगणिकायस्स मज्झमझेणं वीतीवदेजा ? हंता वितीवदेजा। से णं तत्थ डहेज्जा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति ।
(३) से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं वीतीवदेजा ? हंता परमाणुनिष्पद्यते ? अत्रोत्तरम्- अणंताणमित्यादि । अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदया: व्यादिसमुदायात्मकानि वृन्दानि तेषां या: समितयो बहूनि मीलनानि तासां समागमः संयोग एकीभवनं समुदयसमितिसमागमः, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते । इदमुक्तं भवति- निश्चयनय:
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस-वर्ण-गन्धो द्विस्पर्श: कार्यलिङ्गश्च ॥१॥ ( )
इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यश्चैतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि य: शस्त्रच्छेदाऽग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्ते: परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयत: स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिक: परमाणुरुक्तः । न च वक्तव्यम्- अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयति- से णं भंते इत्यादि, स भदन्त ! व्यावहारिकपरमाणु: कदाचित् असि: खड्गः तद्धारां वा क्षुरो नापितोपकरणं तद्धारां वा अवगाहेत आक्रामेद् ? अत्रोत्तरं हन्तावगाहेत, हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् । पुन: पृच्छतिस तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत वा अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह- नायमर्थ: समर्थः, नैतदेवमिति भावः । अत्रोपपत्तिमाह- न खलु तत्र शस्त्र क्रामति, इदमुक्तं भवति- यद्यप्यनन्तैः परमाणुभिर्निष्पन्ना: काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्यानन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: परमाणुाह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्य वह्नमध्यंमध्येन अन्तरे व्यतिव्रजेद् गच्छेत् ? हन्तेत्याद्युत्तरं पूर्ववत् । नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम् ।
पुन: पृच्छति- से णं भंते पुक्खल इत्यादि, इदमपि सूत्रं पूर्ववद्भावनीयम्। नवरं पुष्करसंवर्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org