________________
श्रीअनुयोगद्वारसूत्रम् [सू०३४३]
२१५ वीतीवदेज्जा । से णं तत्थ उदउल्ले सिया ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति ।
(४) से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा ? हंता हव्वमागच्छेजा। से णं तत्थ विणिघायमावजेजा ? नो तिणढे समतु, णो खलु तत्थ सत्थं कमति ।
(५) से णं भंते ! उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा ? हंता ओगाहेजा। से णं तत्थ कुच्छेज्ज वा परियावजेज वा ? णो इणमढे समढे, नो खलु तत्थ सत्थं कमति ।
१०२सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं व जं किर न सक्का ।
तं परमाणू सिद्धा वयंति आदी पमाणाणं ॥१००॥ महामेघस्येयं प्ररूपणा- इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघा: प्रादुर्भविष्यन्ति, तद्यथा- पुष्कलसंवर्तक उदकरस: प्रथम:, द्वितीय: क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः । तत्र पुष्कलसंवर्गोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता-दाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्य: । उदउल्ले सिय त्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया । से णं भंते ! गंगाए इत्यादि, गङ्गाया महानद्या: प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाद्यभिमुख: स आगच्छेत् तन्मध्येनेति भावः । विणिहायमित्यादि, विनिघात: तच्छ्रोतसि प्रतिस्फलनम्, तमापद्येत प्राप्नुयात्, शेषं पूर्ववत् । से णं भंते उदगावत्तमित्यादि, उदकावर्तोदकबिन्द्वोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः, स च तत्रोदकसम्पर्कात् कुथ्येद्वा पूतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपत: प्राह- सत्थेण गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभते इत्येतत् किलशब्देन सूचयति, सिद्ध त्ति ज्ञानसिद्धा: केवलिनो न तु सिद्धा: सिद्धिगताः, तेषां वदनस्यासम्भवादिति । अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा, सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत् प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति
१०२. सत्येण सुतिखेणवित्ति । सामान्यतश्छेद्यापेक्षया छेदकस्य सूक्ष्मत्व एव छेद्यस्य छेदः सम्भवति । अत्र तु तद्वैपरीत्यमेव, सुतीक्ष्णस्यापि शस्त्रस्य जघन्यतोऽप्यनुलसङ्ख्येयभागप्रमाणत्वात् । ततश्च छेदासम्भवः स्पष्ट एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org