________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० ३४४) अनंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसहिया ति वा सण्हसहिया ति वा उडरेणू ति वा तसरेणू ति वा रहरेणू ति वा । अट्ठ उस्सण्हसहियाओ सा एगा सहसहिया । अट्ठ सहसहियाओ सा एगा उरेणू । अट्ठ उडरेणूओ सा एगा तसरेणू । अट्ठ तसरेणूओ सा एगा रहरेणू । अट्ठ रहरेणूओ १०३ देवकुरु - उत्तरकुरुयाणं मणुयाणं से एगे वालग्गे । अट्ठ देवकुरु- उत्तरकुरुयाणं मणुयाणं वालग्गा हरिवास - रम्मगवासाणं मणुयाणं से एगे वालग्गे । अट्ठ हरिवस्स- रम्मयवासाणं मस्साणं वालग्गा, हेमवय- हेरण्णवयवासाणं मणुस्साणं से एगे वालग्गे । अट्ठ हेमवयहेरण्णवयवासाणं मणुस्साणं वालग्गा पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे । अट्ठ पुव्वविदेह-अवरविदेहाणं मणूसाणं वालग्गा भरहेरवयाणं मणुस्साणं से एगे वालग्गे । अट्ठ भरहेरवयाणं मणूसाणं वालग्गा सा एगा लिक्खा । अट्ठ लिक्खाओ सा एगा जूया । अट्ठ जूयातो से एगे जवमज्झे । अट्ठ जवमज्झे से एगे उस्सेहंगुले ।
( सू० ३४५) एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाई से एगे दंडे इवाइ वा जुगेइ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं वा इत्यादिष्वपि वाच्यम् । एते चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं सा गा उस्सण्हसहिया इ वा इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्वलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोच्छ्लक्ष्णश्लक्ष्णिकादित्रीणि पदानि परमाणू तसरेणू इत्यादिगाथायाम् अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि । त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्र-लिक्षादयः प्रतीताः । देवकुरूत्तरकुरु- हरिवर्ष रम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव यावत् नेरइयाणं भंते !
२१६
१०३. देवकुरुउत्तरकुरूणंति । ननु द्रव्यलोकप्रकाशे प्रथमसर्गे “स पूर्य उत्तरकुरुनृणां शिरसि मुण्डिते । दिनैरेकादिसप्तान्तैरूढकेशाग्रराशिभिः । ॥७३ ।।” इत्येवमुक्तम् । तत्किमनियतमानाः केशाग्रा ग्राह्याः ? इति चेत् ? न नियतमानत्वात्तेषाम् । तच्चैवम्-एकस्योत्सेधाङ्गुलमानस्य केशस्याष्टौ तुल्या भागाः कर्तव्याः । तदेकस्याष्टमभागस्य पुनरष्टौ भागाः कर्तव्याः । एवमुत्तरोत्तरमष्टकृत्वोऽष्ट- अष्टभागाः कर्तव्याः । एवं सर्वे केशखण्डा एका कोटिः सप्तषष्टिर्लक्षाणि सप्तसप्ततिसहस्राणि षोडशाधिके च द्वे शते प्राप्यन्ते । ततश्चोत्सेधाङ्गुलस्यैतावत्तमो (१६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org