________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
शक्र
वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:- इन्द्रक - पुरन्दरादिशब्दान् अनन्तरं १३४ शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, सुर - मनुजादिशब्दवत्, तथाहि इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गः घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण । उक्तः समभिरूढः।
वंजणअत्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं
३४६
१३४. शब्दनयेनैकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वादित्यादि । इदमत्र हृदयम - विभक्त्यन्तेन पदेनाभिधेयगतं लिङ्गवचनादिकं यथा बुध्यते तथैवेन्दन- शकनादिधर्मा अपि बुध्यन्ते । तथापीन्द्रशक्रादिशब्दश्रवणमात्रेणेन्दन-शकनादिधर्मावबोधः केषाञ्चिद् मेधाविनामेव भवति, तदन्येषां तु लिङ्गादिबोधमात्र एवेति प्रसिद्धम् । अतो ज्ञायते यद् 'लिङ्गादिभेदेन यो वस्तुभेदस्तद्विषयो यो बोधस्तदपेक्षया प्रवृत्तिनिमित्तभूतेन्दनादिभेदेन यो वस्तुभेदस्तद्विषयो यो बोधः स सूक्ष्मतरां बुद्धिमपेक्षते' इति । ततश्च विशुद्धेनापि शब्दनयेनानवबुध्यमान इन्दनशकनादिभेदप्रयुक्तो वस्तुभेदो विशुद्धतरेण समभिरूढनयेन बुध्यते कथ्यते चेति ज्ञेयम् ।
ननु घटनिष्ठा या घटत्वावच्छिन्ना 'अयं घटः' इति ज्ञाननिरूपिता विषयता, या च पृथिवीत्वावच्छिन्ना 'इयं पृथिवी' इति ज्ञाननिरूपिता विषयता, तयोः सत्यपि भेदे न तदाश्रयस्य घटस्य भेदः, एवं सत्यपीन्दन - शकनादिधर्मभेदे कथमिन्द्र-शक्रलक्षणस्य धर्मिणो भेदः ? इति प्रश्नस्येदं प्रतिवचनं प्रतिभाति यद् - पर्यायार्थिकनयतया शब्दादिनयास्तटादिपदानां इन्द्रादिशब्दानां वा शक्तिं तटादिगत-इन्द्रादिगतपर्यायेष्वेव मन्यन्ते । पर्यायवत्सु तटादिद्रव्येष्विन्द्रादिद्रव्येषु वा लक्षणामेव (उपचारमेव) मन्यन्ते, सुनयत्वात्तेषाम् । तस्मात्तेषां तटादिपदवाच्यत्वेनेन्द्रादिशब्दवाच्यत्वेन वा मुख्यतया तटादिगतानामिन्द्रादिगतानां वा लिङ्गवचनादिलक्षणानामिन्दनशकनादिलक्षणानां वा पर्यायाणामेवोपस्थितिः संमता । अत एव 'न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हती त्यादिकं वृत्तिकारैरुक्तम् । तस्माद् लिङ्गादिभेदेनेन्दनादिभेदेन वा वाच्यार्थभेदं ते मन्यन्त इति ।
नैगमादिनयास्तु द्रव्यार्थिकतया तटादिपदवाच्यत्वेनेन्द्रादिशब्दवाच्यत्वेन वा तटेन्द्रादिद्रव्याणामेवोपस्थितिं मुख्यतया यतो मन्यन्तेऽतो न तेषां लिङ्गादिभेदेऽपीन्दनादिभेदेऽपि वा वाच्यार्थभेद इति स्पष्टमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org