________________
श्री अनुयोगद्वारसूत्रम् [सू०६०६ ]
यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं प्राप्तमिति कृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्वशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते । स एवंभूतो नयः किमित्याह- व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः, अर्थस्तु तदभिधेयवस्तुरूपः, व्यञ्जनं चार्थश्च व्यञ्जनार्थी, तौ च तौ तदुभयं चेति समासः, १३५व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश: प्राकृतत्वात्, व्यञ्जनार्थतदुभयं विशेषयति नैयत्ये स्थापयति, इदमत्र हृदयम् - शब्दमर्थेनार्थं च शब्देन विशेषयति यथा घट चेष्टायाम् (पा०धा०८१२), घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो घटः यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः १३६ इति गाथार्थः । उक्ता मूलनया: । एषां चोत्तरोत्तरभेद - प्रभेदा आवश्यकादिभ्योऽवसेयाः । एते च सावधारणा: सन्तो दुर्नया:, अवधारणविरहितास्तु सुनया:, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया ।
T
अत्राह कश्चित् - ननूक्ता एते नया:, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह-- नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्षः स न युक्तः प्रतिसूत्रं नयविचारस्य न नया समोयरंति इह
१३५. व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश इति । 'अर्थ' शब्दस्याल्पाक्षरत्वादर्थस्य च व्यञ्जनापेक्षयाऽभ्यर्हितत्वाच्च पूर्वनिर्देशे प्राप्तेऽपि सूत्रे 'व्यञ्जन 'शब्दस्यैव पूर्वनिर्देशोऽर्थ - शब्दस्य तूत्तरनिर्देशो यो दृश्यते स व्यस्तनिर्देश इति । तत्र च 'प्राकृतत्वादि 'ति हेतुर्वृत्तिकारैर्दत्तः । ननु संस्कृतभाषायामपि सूत्रार्थावित्यादिसमासो दृश्यत एवेति चेत् ? सत्यं तत्र क्रमप्रामाण्यादि ति हेतुर्ज्ञेयः । यतः पूर्वं सूत्रं भवति ततोऽर्थः, अतः 'सूत्र'शब्दस्य पूर्वनिपातः क्रियत इति ।
१३६. इति गाथार्थ इति । यद्वैवं प्रकारोऽप्यर्थोऽत्र शक्यते वक्तुम् । व्युत्पत्तिनिमित्तविशिष्टप्रवृत्तिनिमित्तमेव प्रवृत्तिनिमित्तत्वेन स्वीक्रियत एवंभूतनयेन । तस्माद् योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावदप्यन्यत् पात्रं न 'घट' पदवाच्यं घटत्वलक्षणस्य प्रवृत्तिनिमित्तस्याभावात् । अपवरकैककोणस्थितो घटोऽपि न 'घट' पदवाच्यः, जलाहरणचेष्टालक्षणस्य घटनरूपस्य व्युत्पत्तिनिमित्तस्याभावादिति योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् घट एवैवंभूतनयेन 'घट' पदवाच्यः, जलाहरणचेष्टाविशिष्टघटत्वलक्षणस्य स्वाभिप्रेतप्रवृत्तिनिमित्तस्य सत्त्वादिति ।
Jain Education International
३४७
For Private & Personal Use Only
www.jainelibrary.org