________________
३४८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (आवश्यकनि० ७६२) मित्यनेन निषिद्धत्वाद्, अथापर: पक्ष: सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ नए समोयारणाणुमए इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अत्रोच्यते, यस्तावत् प्रतिसूत्रं नयविचारनिषेध: प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यकनि० ७६१) इत्यनेनापवादिक: सोऽनुज्ञात एव, यदप्युच्यते समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेत्यादि तत् समयानभिज्ञस्यैव वचनम्, यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषां तत्रोपन्यास:, यदप्युक्तम्- न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदाय-समुदायिनो: कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि- प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येक-समुदितावस्थयो: कार्यभेद: शिबिकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात् कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदाय-समुदायिनोर्भेद: प्रतिपत्तव्य:, एवं सङ्ख्या-संज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात् कश्चित् क्वचित् सूत्रविषय: समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्वित् कियद्भिरेव ? यदि सर्वैरिति पक्ष: स न युक्तः तेषामसङ्खयेयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि- यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् -
जावइया वयणपहा तावइया चेव होति नयवाया। जावइया नयवाया तावइया चेव परसमया ॥१।। (सम्मति० ३।४७)
न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि कि नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्याम:, अथापि स्यात् - असंख्येयत्वेऽप्येषां सकलनयसाहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि- पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च- एक्केक्को य सयविहो सत्त नयसया हवंति एमेवे ( आवश्यकनि० ७५९) त्यादि, सप्तानां च नयशतानां सङ्ग्राहका: पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादिनया:, तत्सङ्ग्राहिणौ पुनरपि द्रव्य-पर्यायास्तिको नयौ ज्ञान-क्रियानयौ वा निश्चय-व्यवहारौ वा शब्दा-ऽर्थनयौ वेत्यादि इति सङ्ग्राहकनयानामप्यनेकविधत्वात् सैवानवस्था । अहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org