________________
श्री अनुयोगद्वारसूत्रम् [सू०६०६ ]
णायम्मि गिहियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि | जयव्वमेव इइ जो उवएसो सो नओ नाम ॥ १४०॥ सव्वेसि पि नाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणओि साहू || १४९१ ।। सेतं नए | || अणुओगद्दाराई सम्मत्ताई ॥ सोलस साणि चउरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुट्टुभछंदवित्तपरिमाणओ भणियं ।। १४२ ।।
अतिनिपुणमुक्तम्, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते तच्च मुक्तिफलम्, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयम्, तच्च ज्ञानक्रियात्मकमेव ततो ज्ञान-क्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः ।
तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थ- माह - णायम गाहा । व्याख्या- ज्ञाते सम्यग् अवगते गिहियव्वे ग्रहीतव्ये, उपादेय इत्यर्थः, अग्रहीतव्ये अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात् चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते उपेक्षणीयं त्वनुक्तमप्ययमेव चकारः समुच्चिनोति वो गाथालङ्कारमात्रे, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रक् - चन्दना -ऽङ्गनादिः, अग्रहीतव्योऽहि-विष- कण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोग:, तद्यथा ज्ञात एवेति, तदयमर्थ:- ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति - परिहारोपेक्षार्थिना यतितव्यं प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इति, इति एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह - नड्ड इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम् - इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति- नन्वैहिका - ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- पढमं नाणं तओ दये (दशवै० ४।१० ) त्यादि जं अन्नाणी कम्मं खवेइ ( कल्पभा० ११७० ) त्यादि, तथा अपरमप्युक्तम्
पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खमि । वियरस य पडिवत्ती तिन्नि वि नाणे समप्पंति ||१|| ( तथा अन्यैरप्युक्तम्
Jain Education International
३४९
For Private & Personal Use Only
)
www.jainelibrary.org