________________
३५०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं नगरमहादारा इव कम्मदाराणुओगवरदारा । अक्खर-बिंदू-मत्ता लिहिया दुक्खक्खयट्ठाए ॥१४३।। विज्ञप्ति: फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ।।१।। ( ) इति ।
इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम्
गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ।।१।।
(कल्पभा० ६८८, ओघनि० १२१) न यस्मादन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम्, प्रयोगश्चात्र- यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिक-श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति-सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थ: ।
विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते- तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव गाथामाहनायम्मीत्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते- इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधान कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानय, शेषं पूर्ववत्, अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति- ननु क्रियैव प्रधान पुरुषार्थसिद्धिकारणम्, यत आगमेऽपि तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तम्,
सुबहु पि सुयमहीयं किं काही चरणविप्पमुक्कस्स ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥१।। (आवश्यकनि० ९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org