________________
श्रीअनुयोगद्वारसूत्रम् [सू०१५३]
१११ (२) अणाणुपुव्वीदव्वाणं पुच्छा, एगं दव्वं पडुच्च नो संखिज्जतिभागे होज्जा, असंखिज्जतिभागे होज्जा, नो संखेज्जेसु० नो असंखेज्जेसु० नो सव्वलोए होज्जा, नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा ।
(३) एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । (सू० १५३) (१) णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं, फुसंति ? असंखेज्जति० ? जाव सव्वलोगं फुसंति ? एगं दव्वं पडुच्च संखेज्जतिभागं वा फुसंति, असंखेज्जतिभागं वा, संखेज्जे वा भागे, असंखेज्जे वा भागे, देसूणं वा लोगं फुसंति, णाणादव्वाइं पडुच्च णियमा सव्वलोगं फुसंति । मित्यादि, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वम्, तैश्च त्र्यादिप्रदेशावगाडैद्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः।
अनानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्ख्येयभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनात्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्ज त्ति एकैकप्रदेशावगाढैरपि द्रव्यभेदैः समग्रलोकव्याप्तेरिति । एवं अवत्तव्वगदव्वाणि वित्ति, अवक्तव्यकद्रव्यमप्येकं लोकासंख्येयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्, प्रदेशद्वयस्य च लोकासङ्ख्येयभागवृत्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाढेरपि द्रव्यभेदैः समस्तलोकव्याप्तेर्नानाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति ।
अत्राह- नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भाव: प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात् ? अत्रोच्यते- इह त्र्यादिप्रदेशावगाढाद् द्रव्याद् भिन्नमेव तावदेकप्रदेशावगाढम्, ताभ्यां च भिन्नं द्विप्रदेशावगाढम्, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात् तत्तद्धर्माभिव्यक्तौ दृश्यत एव समकालं व्यपदेशभेदो यथा खड्ग-कुन्त-कवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति । इह क्वचिद् वाचनान्तरे अणाणुपुव्वीदव्वाइं अवत्तव्वगदव्वाणि य जहेव हेतुति अतिदेश एव दृश्यते, तत्र हे? त्ति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयो: क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थः, तच्च व्याख्यातमेवेति, एवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यमिति ।
गतं क्षेत्रद्वारम् । स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयम्, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूक्मेकद्रव्यस्य सङ्ख्येयभागादारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण सङ्ख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org