________________
११०
पडुच्च णियमा सव्वलोए होज्जा ।
नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापित्वं पूर्वमुक्तम्, तस्य च समस्तलोकवर्त्यसङ्ख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते ? सत्यम्, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः प्रतीयेत, ततो महास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येकः प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षा भाव:, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोक: प्रतिपादित इत्यदोष: । उक्तं च पूर्वमुनिभिःमहखंधा पुण्णे वी saत्तव्वग -ऽणाणुपुव्विदव्वाई । जद्देसोगाढाई तद्देसेणं स लोगूणो || १ || (
I
ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवम्, यतो द्रव्यानुपूर्व्यं द्रव्याणामेवानुपूर्व्यादिभाव उक्तः, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वात्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभाव:, मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूर्व्यधिकारात्, ततो द लोकप्रदेशा: सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपाद्येत ? यस्त्विहैव येष्वाकाशप्रदेशेष्वानुपूर्व्यास्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेद विवक्षणात्, ६०'अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति । अथवा आनुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्याङ्गुल्यादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते यथा पुरुषस्यैवाङ्गुलीदेशे, देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः । न च वक्तव्यं देशिनो देशो न कश्चिद्भिन्नो दृश्यते, एकान्ताभेदे देशमात्रस्य देशिमात्रस्य वाऽभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिंश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः । न च देशदेशिभावः कल्पनामात्रम्, सम्मत्यादि - (गा० ३७) न्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन । नाणादव्वाइ६०. अत्रेति। आनुपूर्वीद्रव्यस्य देशोनलोकव्यापित्वकथन इत्यर्थः।
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org