________________
११२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) अणाणुपुव्वीदव्वाइं अवत्तव्वयदव्वाणि य जहा खेत्तं, नवरं फुसणा भाणियव्वा । (सू० १५४) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कालतो केवचिरं होंति ? एगदव्वं पडुच्च जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं । णाणादव्वाइं पडुच्च सव्वद्धा। एवं दोण्णि वि। द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्यकयोर्निरवकाशताप्रसङ्गात् पूर्ववद्देशोनता लोकस्य वाच्या । अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति । न चात्रानुपूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसङ्ख्येयानां द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसङ्ख्येयभेदयोर्लोके सद्भावाद् द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भाव: । वृद्धबहुमतश्चायमपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्र-स्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति गतं स्पर्शनाद्वारम् ।
अथ कालद्वारम्- तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तः, अतस्तेषामेवावगाढस्थितिकालं चिन्तयन्नाह- एगदव्वं पडुच्चेत्यादि । अत्र भावना- इह द्विप्रदेशावगाढस्य एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेश: सञ्जात:, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद् द्रव्यं संजातमित्यानुपूर्व्या: समयो जघन्यावगाहस्थिति:, यदा तु तदेव द्रव्यमसङ्ख्येयं कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति । नानाद्रव्याणि तु सर्वाद्धा सर्वकालमेव भवन्ति, त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति।
एवं यदा समयमेकं किंचिद् द्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्या: समयो जघन्याऽवगाहस्थिति:, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकाल:, नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदा भावादिति। अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिंस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्या समयोऽवगाहस्थिति:, असङ्ख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, नानाद्रव्याणि तु सर्वकालम्, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति । एवं समानवक्तव्यत्वादतिदिशति- एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org