________________
श्रीअनुयोगद्वारसूत्रम् [सू०१५५]
११३ (सू० १५५) णेगम-ववहाराणं आणुपुव्वीदव्वाणमंतरं कालतो केवचिरं होति ? तिण्णि वि एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। णाणादव्वाइं पडुच्च णत्थि अंतरं । दोण्णि वि त्ति ।
इदानीमन्तरद्वारम् - जहण्णेणं एगं समयं ति, अत्र भावना- इह यदा व्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य तेष्वेव त्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्यान्तरकाल: प्राप्यते । उक्कोसेणं असंखेज्जं कालं ति, तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्खयेयं कालं परिभ्रम्य ६१केवलमन्यद्रव्ययुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकाल: प्राप्यते, न पुनद्रव्यानुपूर्व्यामिवानन्त:, यतो द्रव्यानुपूर्त्यां विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ता: प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्तोऽनन्त: कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्खयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्खयेयकालैव, ततश्चासङ्ख्येये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनाऽन्यसंयुक्तेन वाऽसङ्खयेयकालात्तेष्वेव नभ:प्रदेशेष्वागत्यावगाहनीयम् । न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव भ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ? यत इहासङ्ख्येये क्षेत्रेऽसङ्ख्येयकालमेवान्यत्र तेन पर्यटितव्यम्, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयम्, वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम् ।
अन्ये तु व्याचक्षते- यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतम्, तस्य क्षेत्रस्य स्वभावादेवासङ्खयेयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्ण-गन्ध-रस-स्पर्श-सङ्ख्यादिधर्मे: सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्खयेय एवान्तरकाल इति । तत्त्वं तु केवलिनो विदन्ति, ६२गम्भीरत्वात् सूत्रप्रवृत्तेरिति ।
६१. केवलमन्यद्रव्यसंयुक्तं वेति । अत्रान्यद्रव्यसंयोगस्तथैव संमतो यथा मूलभूतस्याऽऽनुपूर्वीद्रव्यस्यावगाहनायां हानिर्वृद्धिर्वा न स्यात् ।
६२. गम्भीरत्वात् सूत्रप्रवृत्तेरिति । यद्वाऽत्रायमपि समाधानप्रकारः संभवति-पूर्व द्रव्यानुपूामन्तरकालोऽनन्तः प्रोक्तः । ततश्च, यैः परमाणुप्रदेशैर्निष्पन्नं यदानुपूर्वीद्रव्यं क्षेत्रानुपूर्वीतयाऽधिकृतं, तद्विघटितं, विघटनानन्तरं पुनः संयोजनात् प्रागनन्तकालो व्यतीतः। तदनन्तरं पुनस्तैरेव परमाणुप्रदेशैस्तादृगेवानुपूर्वीद्रव्यं निर्मितं, पुनश्च तत्तेष्वेवाकाशप्रदेशेष्वागतमित्येवमन्तरकालोऽनन्तोऽपि प्राप्यते । परन्तु ग्रन्थेऽन्तरकालोऽसङ्ख्येय एवोक्तः । ततश्च निश्चीयते यद्विवक्षितमानुपूर्वीद्रव्यं विघटनात्प्रागुत्कृष्टतो यावता कालेन पुनस्तेष्वेवाकाशप्रदेशेष्वागच्छति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org