________________
११४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १५६) णेगम-ववहाराणं आणुपुव्वीदव्वाइं ६३सेसदव्वाणं कतिभागे होज्जा ? तिण्णि वि जहा दव्वाणुपुव्वीए।
नाणादव्वाइमित्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्ख्येयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः । शेषा तु व्याख्याद्वयभावना सर्वाऽपि तथैवेति । ___उक्तमन्तरद्वारम् । साम्प्रतं भागद्वारमुच्यते- तत्र यथा द्रव्यानुपूर्त्यां तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्य: शेषद्रव्येभ्योऽसङ्ख्येयै गैरधिकानि, शेषद्रव्याणि तु तेषामसङ्ख्येयभागे वर्तन्ते इति । अत्राह- ननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूर्को द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्ति, अतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि- असत्कल्पनया किल लोके त्रिंशत् प्रदेशा:, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव, अवक्तव्यकानि तु पञ्चदश, आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्य: स्तोकान्येव प्राप्नुवन्ति, कथमसङ्ख्येयगुणानि स्युरिति ? अत्रोच्यते- एकस्मिन्नानुपूर्वीद्रव्ये ये नभ:प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयुज्यरस्तदा स्यादेवम्, तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रय: प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाऽऽधेयद्रव्येणाक्रान्ता: सन्त: प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमन्यान्यचतुष्प्रदेशावगाढाद्याधेयेनाध्यासितत्वात्त एवानेकेषु चतुष्कसंयोगेष्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसङ्ख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादय: प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया, तस्मादसङ्ख्येयप्रदेशात्मके स्वस्थित्या व्यवस्थिते स एवात्रोत्कृष्टान्तरकालतयाऽभिप्रेत इति । स च काल उत्कृष्टतोऽप्यसङ्ख्येय एव प्राप्यते, कस्यचिदप्यानुपूर्वीद्रव्यस्य तत्परतोऽवश्यं विघटनात् । ननु यदानुपूर्वीद्रव्यं विवक्षितेष्वाकाशप्रदेशेषु पुनरागमनात्प्रागेव विघटितं तस्यान्तरकालानापत्त्यापत्तिः स्यादिति चेत् ? न, इष्टापत्तेः, यत्र यत्र मार्गणादौ यो योऽन्तरकालः प्रोक्तो भवेत्, तस्य प्राप्तिस्तत्तन्मार्गणादिविषयभूतानां सर्वेषां स्यादेवेति नियमाभावात्, अन्यथोपशमश्रेणिप्राप्तानां सर्वेषां देशोनार्धपुद्गलपरावर्तसंसारभ्रमणमवश्यं कर्तव्यं स्यात्, तदुत्कृष्टान्तरकालस्य तावत्प्रमाणस्योक्तत्वात्।।
६३. सेसदव्वाणंति । अत्रापि (११२) द्वादशाधिकशततमसूत्रवदकारलोपो ज्ञेयः, तत्रोक्तहेतोरेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org