________________
श्रीअनुयोगद्वारसूत्रम् [सू०१५७],
(सू० १५७) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? तिन्नि वि णियमा सादिपारिणामिए भावे होज्जा । लोके यावन्तस्त्रिकसंयोगादयोऽसङ्ख्येयकसंयोगपर्यन्ता: संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावात्, ६४आधेयभेदे चाधारभेदात्, न हि नभ:प्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गात्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमात्, घट-तत्स्वरूपवत् । तस्मात् त्र्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम् । अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वात् । अनानुपूर्दोऽपि स्तोका एव, लोकप्रदेशसङ्ख्यामात्रत्वात् ।
अत्र सुखप्रतिपत्त्यर्थं लोके किल पञ्चाकाशप्रदेशा: कल्प्यन्ते, तद्यथा- :
अत्रानानुपूर्व्यस्तावत् पञ्चैव प्रतीता:, अवक्तव्यकानि त्वष्टौ, द्विकसंयोगानामिहाष्टानामेव सम्भवात्, आनुपूर्व्यस्तु षोडश संभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकसंयोगस्येह लाभात्, दश त्रिकसंयोगा: कथमिह लभ्यन्ते ? इति चेत्, उच्यते- षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते, चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुभिरेव केवलैरिति, चतुष्कसंयोगास्तु चत्वारो मध्यव्यवस्थितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैर्दिग्व्यवस्थितैरेवेति सर्वे पञ्च, पञ्चकसंयोगस्तु प्रतीत एवेति । तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्ख्येयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण ।
उक्तं भागद्वारम् । साम्प्रतं भावद्वारम्- तत्र च द्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिप(पा)रिणामिकत्वात् ६५त्रयाणामपि सादि
६४. आधेयभेदे चाधारभेदादिति । अत्राधेयभेदोऽवयवभूतपरमाणुप्रदेशादिभेदेन वर्णादिभेदेन वा न ग्राह्यः, आनुपूर्व्यादित्रयाणामपि द्रव्यप्रमाणेऽनन्तप्रमाणत्वकथनप्रसङ्गात्, एकस्मिन्नपि नभः प्रदेशेऽनन्तानां परमाणुट्यणुकादीनामवगाढत्वात् । तर्हि कथमाधेयभेदोऽत्र ग्राह्यः ? अवगाहक्षेत्रभेदेन स ग्राह्य इति जानीहि । अत एवैकाकाशप्रदेशावगाढानां परमाणुट्यणुकादीनामनन्तत्वेऽपि नानानुपूर्वीद्रव्याणामनन्तत्वं, अपि तु यावन्तो लोकाकाशस्य प्रदेशास्तावतामेवावगाहक्षेत्रभेदानां सम्भवादनानुपूर्वीद्रव्याणामपि लोकाकाशप्रदेशप्रमाणासङ्ख्येयत्वमेव । ततश्चानुपूर्वीद्रव्यार्थं यदि क-ख-ग-घ-इति संज्ञिता नभःप्रदेशा विचार्यन्ते, तदा क-ख-ग-इति संज्ञितेषु त्रिषु नभःप्रदेशेष्ववगाढानां त्र्यणुकादिअनन्ताणुकपर्यन्तस्कन्धानामेकमेवानुपूर्वीद्रव्यत्वं, किन्तु कखघकगघ-खगघ-कखगघ इत्यादिसंज्ञितेषु नभःप्रदेशेष्ववगाढानां स्कन्धानां तद्भिन्नमेवानुपूर्वीद्रव्यत्वम् ।
६५. त्रयाणामपि सादिपारिणामिकभाववर्तित्वमिति । ततश्चात्राप्याधेयभेदेनाधारभेदो ज्ञेयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org