________________
११६
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० १५८ ) ( १ ) एएसि णं भंते ! णेगम - ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्ट - पएसट्टयाए य करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाइं णेगमववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई |
(२) पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अणाणुपुव्वीदव्वाइं अपएसट्टयाए, अवत्तव्वयदव्वाइं परसट्टयाए विसेसाहियाई, आणुपुव्विदव्वाइं पसट्टयाए असंखेज्जगुणाई |
(३) दव्वट्ठ-पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्विदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहियाई, अवत्तव्वयदव्वाई पट्टयाए पारिणामिकभाववर्त्तित्वं भावनीयमिति ।
अल्पबहुत्वद्वारे- इह द्रव्यगणनं द्रव्यार्थता, प्रदेशगणनं प्रदेशार्थता, उभयगणनं तूभयार्थता । तत्रानुपूर्व्यं विशिष्टद्रव्यावगाहोपलक्षितास्त्र्यादिनभःप्रदेशसमुदायास्तावद्द्द्रव्याणि, समुदायारम्भकास्तु प्रदेशाः । अनानुपूर्व्यं त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिताः सकलनभ:प्रदेशाः प्रत्येकं द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये प्रदेशान्तरायोगात् । अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगाः संभवन्ति तावन्तस्ते प्रत्येकं द्रव्याणि, तदारम्भकास्तु प्रदेशा इति । शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीवत् कर्तव्येति ।
नवरं सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइमित्यादि । अत्राह - ननु यदा पूर्वोक्तयुक्त्या एकैको नभ:प्रदेशोऽनेकेषु द्विकसंयोगेषूपयुज्यते, तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभःकल्पनायामवक्तव्यकद्रव्याणामेवाष्टसङ्ख्योपेतानां पञ्चसङ्ख्येभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टम्, तत् कथमत्र व्यत्ययः प्रतिपाद्यते ? सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवल चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना f । अत्र विश्रेणिलिखितौ द्वौ अवक्तव्यकायोग्यौ द्रष्टव्याविति । एवम्भूताश्च नात आधारभूतक्षेत्रस्यानाद्यनन्तत्वेन नित्यत्वेऽपि क्षेत्रानुपूर्व्यादीनां सादिपरिणामत्वक्षतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org