________________
१६६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अणुत्तरोववाइया, ईसीपन्भारा, परमाणुपोग्गले, दुपदेसिए जाव अणंतपदेसिए । सेतं सादिपारिणामिए।
(सू० २५०) से किं तं अणादिपारिणामिए ? अणादिपारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया । सेतं अणादिपारिणामिए । सेतं पारिणामिए । ___उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकमाह - से किं तमित्यादि । असावपि द्विस्वरूप:क्षयोपशमस्तन्निष्पन्नश्च । तत्र विवक्षितज्ञानादिगुणविघातकस्य कर्मण ९३उदयप्राप्तस्य क्षय: सर्वथाऽपगमः, अनुदीर्णस्य तु तस्यैवोपशमो विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशम: क्षयोपशम: । ननु चौपशमिकेऽपि यदुदयप्राप्तं तत् सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयो: क: प्रतिविशेष: ? उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेष:। तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणां य: क्षयोपशमरूप: क्षायोपशमिको भाव: । णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति । शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिद्धत्वात् । सेत्तमित्यादि निगमनम् ।
___९३. उदयप्राप्तस्य क्षय इति । ननु मिथ्यात्वगुणस्थानवर्तिनां जीवानां सम्यक्त्वगुणविघातकस्य मिथ्यात्वमोहनीयस्य कर्मण उदयप्राप्तस्य = उदयप्राप्तनिषेकगतदलिकस्य सर्वथाऽपगमलक्षण: क्षयो भवत्येवेति तस्यापि क्षयोपशमघटकीभूतस्य क्षयस्य सत्त्वापत्तिरिति । न चेष्टापत्तिरिति वक्तव्यं, तेन क्षयेन कस्यचिदपि गुणस्य वार्ता तु दूरे, प्रत्युत सम्यक्त्वगुणविघातस्यैव जायमानत्वादिति चेत् ?, न, अभिप्रायापरिज्ञानात् । तथाहि-चतुर्थनिषेकगतं दलिकमाश्रित्य व्यवहारनयेन यदि चिन्त्यते, तदा चतुर्थसमये तद्दलिकस्य विपाकोदयवशात् सम्यक्त्वगुणस्य विघातो भवति, मिथ्यात्वञ्चोज्जृम्भते, पञ्चमसमये च तद्दलिकस्य निर्जेरणात् क्षयो भवति । ततश्च चतुर्थसमये यः सम्यक्त्वगुणस्य विघातः, मिथ्यात्वदोषस्य चोज्जृम्भणं, न तत् चतुर्थनिषेकगतदलिकस्य क्षयेण, अपि तु विपाकोदेयेनेति स्पष्टम् । तथा चतुर्थसमये तस्य क्षयोऽपि न विद्यत एव, चतुर्थसमय उदयप्राप्तत्वेन पञ्चमक्षणे क्षीयमाणत्वात्। ननु तर्हि पञ्चमक्षणे क्षयस्य सत्त्वात् तेन सम्यक्त्वविघाताभावप्रसङ्ग इति चेत्, चतुर्थनिषेकगतदलिकस्य पञ्चमक्षणे सम्यक्त्वविघातसामर्थ्याभावादिष्टापत्तिरेवेति चेत् ? तर्हि पञ्चमक्षणे सम्यक्त्वगुणः प्रादुर्भवेदिति चेत् ? प्रादुर्भवेदेव यदि पञ्चमनिषेकगतं दलिकं स्वविपाकोदयेन तं न विहन्यात्। नन्वेवं मिथ्यात्ववतां जीवानां व्यवहारनयेन चतुर्थसमये चतुर्थनिषेकगतस्य दलिकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org