________________
श्रीअनुयोगद्वारसूत्रम् [सू०२५१]
१६७ (सू० २५१) से किं त सण्णिवाइए ? सण्णिवाइए एतेसिं चेव उदइय-उवसमियखइय-खओवसमिय-पारिणामियाणं भावाणं दुयसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे निप्पजंति सव्वे से सन्निवाइए नामे । तत्थ णं दस दुगसंजोगा, दस तिगसंजोगा, पंच चउक्कसंजोगा, एक्के पंचगसंजोगे।
तेन च क्षयोपशमेनोक्तस्वरूपेण निष्पन्न: क्षायोपशमिको भावोऽनेकधा भवति, तमाहखाओवसमिता आभिणिबोहियणाणलद्धीत्यादि, आभिनिबोधिकज्ञानं मतिज्ञानं तस्य लब्धि: योग्यता स्वावरणकर्मक्षयोपशमसाध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मन:पर्यायविपाकोदयो भवति, तेन च सम्यक्त्वगुणघातो भवति, पञ्चमक्षणे तद्दलिकस्य निर्जराऽपराख्यः क्षयो भवति, न च स क्षयः क्षयोपशमघटकीभूतः, गुणप्रादुर्भावं प्रत्यकिञ्चित्करत्वादित्यादि निश्चितम् । ततश्च सम्यक्त्वप्रादुर्भावकारणीभूतक्षयोपशमघटकीभूतः क्षयः किंस्वरूप इति चेत्, शृणु-क्षायोपशमिकसम्यक्त्ववतां जीवानां चतुर्थे निषेके मन्दद्विरथानिकं यावत् सम्यक्त्वमोहनीयसम्बन्धिदेशघातिरसो, मध्यमद्विस्थानिकं यावद् मिश्रमोहनीयसम्बन्धिसर्वघातिरसस्तदुपरि चतुःस्थानिकं यावद् मिथ्यात्वमोहनीयसम्बन्धिसर्वघातिरसश्च भवति । चतुर्थे समये जीवस्य सम्यक्त्वगुणानुरूपा या च यावती च विशुद्धिस्तत्प्रभावेण तन्निषेकगतस्य मिश्र-मिथ्यात्वमोहनीयदलिकस्य रसो हन्यते, सम्यक्त्वमोहनीयदलिकस्यापि विपाकोदयप्राप्तरसादधिको यो रसः सोऽपि हन्यते । यथा यथा विशुद्धिर्वर्धते तथा तथा विपाकोदयप्राप्तरसस्य प्रमाणं हीयते, हन्यमानरसस्य प्रमाणं वर्धते, सम्यक्त्वञ्च निर्मलीभवति । यथा यथा च सा विशुद्धिीयते तथा तथा वैपरीत्यं ज्ञेयम्। विशुद्धिवशाज्जायमानेयं रसहानिरेव 'उदयप्राप्तस्य क्षयः' इति वाक्यखण्डेनोच्यते। तथोदयावलिकाबहिर्वर्तिनिषेकेभ्यो यद्दलिकमपवर्तनयोदीरणया चोदयमासादयति तस्मादपि विपाकोदयप्राप्तादधिको यो रसः स सर्वोऽपि विशुद्धिवशादुदयप्राप्तरसं यावदल्पीक्रियते। अयमपि तेनैव वाक्यखण्डेन प्रतिपाद्यमानः क्षय एव ज्ञेयः। यच्चोदयावलिकाबहिर्वर्तिनिषेकगतं दलिकमुदीरणादिनोदयं नासादयति, किन्तु तत्रैवावतिष्ठते, तद्दलिकगतो योऽधिको रसस्तस्य यद्यपि क्षयो न भवति, तथाप्युपशमस्तु भवत्येव, उदीरणादिनोदयमासाद्य सम्यक्त्वगुणघातं यथा न विदध्यात्तथावस्थां प्राप्यत इत्यर्थः । किञ्च हीनरसत्वेन तु तद्दलिकमुदीरणादिनोदयमासादयेदपि । अतो ज्ञायते यद् दलिकमनुपशान्तमेव वर्तते, तद्गतोऽधिको रस एवोपशान्तो वर्तते । अयं विपाकोपशमः कथ्यते । एवञ्च स्वत उदीरणादिना वोदयप्राप्तं यद्दलिकं तद्गतस्याधिकरय रसस्य यो घातः स क्षयः, यत्त्वनुदीर्णं तद्गतस्याधिकस्य रसस्य य उदयायोग्यत्वापादनं स उपशमः। अनयोर्द्वयोः क्षय-उपशमयोः प्रभावात् सम्यक्त्वं यतः प्रादुर्भवति, अतस्तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org