________________
श्रीअनुयोगद्वारसूत्रम् [सू०२४८,२४९]
१६५ सोइंदियलद्धी जाव खओवसमिया फासिंदियलद्धी, खओवसमिए आयारधरे एवं सूयगडधरे ठाणधरे समवायधरे विवाहपण्णत्तिधरे एवं नायाधम्मकहा० उवासगदसा० अंतगडदसा० अणुत्तरोववाइयदसा० पण्हावागरण खओवसमिए विवागसुयधरे खओवसमिए दिट्टिवायधरे, खओवसमिए णवपुव्वी जाव चोद्दसपुव्वी, खओवसमिए गणी खओवसमिए वायए। सेतं खओवसमनिप्फण्णे । सेतं खओवसमिए ।
(सू० २४८) से किं तं पारिणामिए ? पारिणामिए दुविहे पण्णत्ते । तंजहासादिपारिणामिए य १, अणादिपारिणामिए य २।।
(सू० २४९) से किं तं सादिपारिणामिए ? सादिपारिणामिए अणेगविहे पण्णत्ते । तंजहा
जुण्णसुरा जुण्णगुलो जुण्णघयं जुण्णतंदुला चेव । अब्भा य अब्भरुक्खा संझा गंधव्वणगरा य ॥२४॥
उक्कावाया, दिसादाघा, गजिय, विजू, णिग्घाया, जूवया, जक्खालित्ता, धूमिया, महिया, रयुग्घाओ, चंदोवरागा, सूरोवरागा, चंदपरिवेसा, सूरपरिवेसा, पडिचंदया, पडिसूरया, इंदधणू, उदगमच्छा ,कविहसिया, अमोहा, वासा, वासधरा, गामा, णगरा, घरा, पव्वता, पायाला, भवणा, निरया, रयणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा, सोहम्मे, ईसाणे, जाव आणए, पाणए, आरणे, अच्चुए, गेवेजे,
तथा । प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतम्, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेष: । क्षीणम् अपगतं तीर्थकर-शुभ-सुभग-सुस्वरा-ऽऽदेययश:कीर्त्यादिकं शुभं नाम यस्य स तथा । क्षीणम् अपगतं नरकगत्यशुभ-दुर्भग-दु:स्वरा-ऽनादेयाऽयश:कीर्त्यादिकमशुभं नाम यस्य स तथा । अनाम-निर्नाम-क्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीया: । शुभाशुभनामविप्रमुक्त इति निगमनम् । गोत्रं द्विधा- उच्चैर्गोत्रं नीचेोत्रं च । ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येव । दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणदानान्तरायादिनामान्यविषमाण्येव । तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुन: समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह- सिद्धे इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः । बोधात्मकत्वादेव बुद्धः । बाह्याऽऽभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्त: । परि समन्तात् सर्वप्रकारैः निर्वृत: सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात शीतीभूत: परिनिर्वृत: । समस्तसंसारान्तकृत्त्वादन्तकृदिति। एकान्तेनैव शारीरमानसदु:खप्रहाणात् सर्वदुःखप्रहीण इति । सेत्तमित्यादि निगमनद्वयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org