SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं विभंगणाणलद्धी, खओवसमिया चक्खुदंसणलद्धी एवमचक्खुदंसणलद्धी ओहिदसणलद्धी, एवं सम्मइंसणलद्धी ९२मिच्छादसणलद्धी सम्मामिच्छादसणलद्धी, खओवसमिया सामाइयचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धियलद्धी सुहुमसंपराइयलद्धी, एवं चरित्ताचरित्तलद्धी, खओवसमिया दाणलद्धी एवं लाभ० भोग० उवभोग० खयोवसमिया वीरियलद्धी, एवं पंडियवीरियलद्धी बालवीरियलद्धी बालपंडियवीरियलद्धी, खओवसमिया ____नामकर्म सामान्येन शुभाशुभभेदतो द्विविधम्, विशेषतस्तु गति-जाति-शरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयम् । तत्रेह तत्क्षयभावीनि कियन्तिचिन्नामानि अभिधत्ते- गइजाइ-सरीरेत्यादि, इह प्रक्रमान्नामशब्दो यथासम्भवं द्रष्टव्यः । ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम । एकेन्द्रियादिजातिपञ्चककारणं जातिनाम । औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम । औदारिक-वैक्रिया-ऽऽहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम । काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुर्बन्धननाम । तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनाम । कपाटादीनां लोहपट्टादिरिवौदारिकशरीरास्थ्नां परस्परबन्धविशेषनिबन्धनं संहनननाम । एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत एव । बोन्दिस्तनुः शरीरमिति पर्याया:, अनेकाश्च ता नानाभवेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिक-तैजस-कार्मणलक्षणानां तिसृणां भावात् बोन्द्यश्चानेकबोन्द्य:, तासां वृन्दं पटलम्, तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घात: । गत्यादीनां च द्वन्द्वे गति-जाति-शरीराङ्गोपाङ्ग-बन्धन-संघात-संहननानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स अतस्तत्प्रक्रियां कृतवान् जीवो विसंयोजितानुबन्ध्युच्यते, न तु क्षीणानन्तानुबन्धीति । तथा च 'क्षीणमोह'शब्देन मोहस्य बन्धोदयादीनामयोग्यतैव मुख्यतः प्रतिपाद्यते। अतोऽत्र क्षीणमोह' इत्यस्यापुन विमोहोदय इत्यर्थः कृतः, न तु मोहनीयकर्मांशानां क्षयमात्र इति। ९२. मिच्छादंसणलद्धित्ति। मित्रादिदृष्टिप्राप्तानां मिथ्यात्वस्य मन्दत्वेन, सम्यग्दर्शनादिगुणावाप्तिकारणत्वेन च मिथ्यात्वेऽपि यथा गुणस्थानकव्यवहारस्तथैव तस्य लब्धित्वेन व्यवहारोऽपि न विरुद्धः । ननु तथापि तस्य क्षायोपशमिकत्वेन कथं व्यवहार इति ? शृण्वत्रोत्तरं-गाढमिथ्यात्वजनको मिथ्यात्वमोहनीयस्य यस्तीव्रो रसस्तस्य मित्रादिदृष्टिपरिणामेन क्षीणत्वादुपशान्तत्वाच्च तद्व्यवहारो ज्ञेयः। तथापि मन्दरसस्य तु तदोदय एव भवति, न तु क्षीणत्वमुपशान्तत्वञ्च, अतो ग्रन्थान्तरेषु न तस्य क्षायोपशमिकभावे समावेशः कृत इति ध्येयम् । ततश्च यथा मिश्रगुणस्थानकस्य क्वचिद्ग्रन्थे क्षायोपशमिकभावे समावेशः क्वचिच्चौदयिक एव तथैवात्रापि ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy