________________
श्रीअनुयोगद्वारसूत्रम् [सू०२४७ ]
१६३
(सू० २४७ ) से किं तं खओवसमनिप्फन्ने ? खओवसमनिप्फन्ने अणेगविहे पण्णत्ते । तंजा - खओवसमिया आभिणिबोहियणाणलद्धी जाव खओवसमिया मणपज्जवणाणलद्धी, खओवसमिया मतिअण्णाण - लद्धी खओवसमिया सुयअण्णाणलद्धी खओवसमिया मिथ्यात्वभेदात्, चारित्रमोहनीयं तु द्विधा क्रोधादिकषाय-हास्यादिनोकषायभेदात् । तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव । नवरं माया - लोभौ प्रेम, क्रोधमानौ तु द्वेषः । तथा अमोह: अपगतमोहनीयकर्मा । स च व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यते, अत आह - निर्गतो मोहान्निर्मोह: । स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत्, तद्व्यवच्छेदार्थमाह- क्षीणमोहः, ९९ अपुनर्भाविमोहोदय इत्यर्थः । निगमयति- मोहनीयकर्मविप्रमुक्त इति । नारकाद्यायुष्कभेदेनायुश्चतुर्द्धा, तत्क्षयसमुद्भवानि च नामानि सुगमानि । नवरमविद्यमानायुष्कोऽनायुष्कः । तद्भविकायुः क्षयमात्रेऽपि स्यादत उक्तं निरायुष्कः । स च शैलेशीं गतः किञ्चिदवतिष्ठमानायुःशेषोऽप्युपचारत: स्यादत उक्तं क्षीणायुरिति । आयुः कर्मविप्रमुक्त इति निगमनम् ।
किञ्चात्रवृत्तिकारोद्धृते निशीथभाष्यपाठे तु 'सुहपडिबोहो निद्दा दुहपडिबोहो य निद्दनिद्दा य' इत्येवं यदुक्तं तेन ‘सुहपडिबोहो' इत्यस्य निद्राविशेषणत्वाभावो ज्ञायते, पुल्लिङ्गत्वात् । ततश्च 'सुखेन प्रतिबोधो यस्याः सा निद्रा, दुःखेन प्रतिबोधो यस्याः सा निद्रानिद्रा' इत्येवं 'यस्याः' इत्यस्याध्याहारेण यथाऽर्थः क्रियते, तथा 'पयला होइ ठियस्सा पयलापयला य चकमओ ।।' इत्यत्रापि तस्याध्याहारेणार्थकरणे न कोऽपि दोषः । तथा च 'स्थितस्य प्रतिबोधो यस्याः सा प्रचला, चङ्क्रमतः प्रतिबोधो यस्याः सा प्रचलाप्रचला' इति लक्षणे पर्यवस्यत एव ।
९१. अपुर्नर्भाविमोहोदय इत्यर्थ इति । अत एव चातुर्गतिका जीवा अनंतानुबन्धिकर्मांशान् यया प्रक्रियया सर्वान् क्षपयन्ति सा विसंयोजनोच्यते, न तु क्षपणा । अयम्भावः- जीवो यदा मिथ्यात्वमोहनीयादीनां क्षपणां करोति, तदा तत्कर्मांशान् यन्निर्जरयति तत्तु तद्गौणं फलं, परन्तु तया प्रक्रिययाऽनादिकालादात्मनि वर्तमानां तत्तत्कर्मबन्धोदयादीनां योग्यतां यन्नाशयति तदेव तन्मुख्यं फलम्। अर्थाद् योग्यतायाः क्षय एव क्षपणाशब्देन मुख्यतयोच्यते । अत एव चरमशरीरिणामायुष्कत्रिकस्य बन्धोदयादीनामसत्त्वेऽपि क्षपक श्रेणेः पूर्वं क्षयो न व्यवह्रियते, अपि तु क्षपकश्रेणावष्टमगुणस्थानकादारभ्यैव व्यवह्रियते, तत्रैव तद्योग्यताया नाशात्। तथोपशमश्रेणौ नरकायुषस्तिर्यगायुषश्चाविद्यमानत्वेऽपि योग्यताया अक्षीणत्वात् संभवसत्ता पूर्वाचार्यैः कथिता । दर्शनमोहनीयानामक्षपका अपि जीवा अनन्तानुबन्धिकषायकर्मांशान् सर्वान् यत्क्षपयन्ति तत्र तद्योग्यता त्वक्षीणैवावतिष्ठते, अन्यथा पुनः मिथ्यात्वोदये तद्बन्धोदयादयः कथं प्रवर्तेरन् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org