________________
१६२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अइसंकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ । महनिद्दा दिणचिंतियवावारपसाहणी पायं ।।२।। ( )
अपरं च - अनावरणादिशब्दा: पूर्वं ज्ञानावरणाभावापेक्षा: प्रवृत्ताः, अत्र तु दर्शनावरणापगमापेक्षा इति विशेषः । वेदनीयं द्विधा- प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातम्, तत्क्षयापेक्षास्तु क्षीणसातवेदनीयादय: शब्दा: सुखोन्नेया: । नवरमवेदनो वेदनारहित:, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते, तत: प्राह- निर्वेदन: अपगतसर्ववेदन: । स च पुन: कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन: अपुन विवेदन: । निगमयन्नाह- सुभासुभवेअणिजकम्मविप्पमुक्के त्ति । मोहनीयं द्विधा- दर्शनमोहनीयं च चारित्रमोहनीयं च । तत्र दर्शनमोहनीयं त्रिधा- सम्यक्त्व-मिश्रतत्र वर्तत एव । अथ च शब्दमात्रेण निद्रात्यागरूपं सुखप्रतिबोध्यत्वमपि दृष्टमेव न तु न दष्टमिति। अतः 'अप्रमत्तसाधकानां निद्राभिसन्ध्यभावेऽपि या परिश्रमवशादल्पनिद्रा भवति सा सुखप्रतिबोधा भवति' इत्ययं निश्चयो नाशक्यः। ततश्च वीरविभोर्निद्रायामपि प्रचलाया इव निद्राया लक्षणस्यापि सत्त्वात् कथं न प्रश्नसमुद्भवः ? ननु तर्हि प्रश्नस्यास्य किं समाधानं कर्तव्यमिति चेत् ? शृण्वस्माभिर्विचारितं तत्समाधानम्- ‘सुखपडिबोहा निद्दा, निद्दानिद्दा य दुक्खपडिबोहत्ति कर्मविपाकोक्तं निद्रा-निद्रानिद्रयोर्लक्षणमिदं ज्ञापयति यद् निद्राधीनो जीवः सुप्तो वोपविष्टो वा स्थितो वेत्यादिकमत्र नापेक्षितम्, अपि तु निद्राप्रतिबोधः कथं भवतीत्येवापेक्षितमिति। ततश्च प्रचलादीनां लक्षणेऽपि यदीयमेवापेक्षाऽपेक्षिता स्यात्तदा प्रचलादीनां लक्षणान्यवेम्प्रकाराण्यपि प्राप्यन्ते । तद्यथा- प्रतिबोधयिता यदा निद्राधीनं प्रतिबोधयति तदा निद्राधीनो न छोटिकामात्रेण हे अमुक ! इति संशब्दनमात्रेणापि वा निद्रां त्यक्तुं शक्नोति, न वा बहुभिर्घोलनाप्रकारैस्तां त्यक्तुं शक्नोति, अपि तु यदा स तं हस्तेन गृहीत्वा शय्यायामुपवेशयत्युत्थापयति वा तदैव स निद्रां त्यजति-प्रतिबोधो भवतीत्यर्थः, एवंप्रकारा निद्रा प्रचलोच्यते। तथा यदि स उपवेशनादौ सत्यपि निद्रां न त्यजति, अपि तु प्रतिबोधयिता बलेन तं पञ्चषान क्रमान चालयति तदैव त्यजति एवंप्रकारा निदा प्रचलप्रचलोच्यते। तथा यदि निद्राधीनश्चक्रमते, दिनचिन्तितं कार्यं स्वयं करोति, तथापि प्रतिबोधो न भवति, तदा सा निद्रा स्त्यानद्धिरुच्यते । ततश्चैतानि लक्षणानि पर्यवस्यन्ति-यस्याः सुखेन प्रतिबोधः, सा निद्रा; दुःखेन प्रतिबोधः, सा निद्रानिद्रा; तिष्ठत उपविशतो वा प्रतिबोधः, सा प्रचला; चङ्क्रमतः प्रतिबोधः, सा प्रचलाप्रचला; दिनचिन्तितार्थकरणेऽपि प्रतिबोधाभावः, सा स्त्यानर्द्धिः । अत्र प्रचलादीनां लक्षणान्यस्मत्परिशीलितानि, नोपलभ्यमानेषु ग्रन्थेषूपलभ्यन्त इति ध्येयम् । ततश्च श्रीवीरप्रभोः श्रीभुवनभानुसूरीश्वराणाञ्च या परिश्रमवशादीषन्निद्रा सा निद्रैव, सुखप्रतिबोध्यत्वात्, न तु प्रचला, तल्लक्षणायोगादिति निश्चये न कोऽपि प्रश्नावकाशः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org