SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०२४५,२४६] १६१ (सू० २४५) से किं तं खओवसमिए ? खओवसमिए दुविहे पन्नत्ते । तंजहा - खओवसमे य १, खओवसमनिप्फन्ने य २ । ( सू० २४६ ) से किं तं खओवसमे ? खओवसमे चउण्हं घाइकम्माणं खओवसमे णं । तं जहा - नाणावणिज्जस्स १, दंसणावरणिज्जस्स २, मोहणिज्जस्स ३, अंतराइयस्स ४ । तं खओवस | नयमतभेदेन सुधिया भेदो वाच्यः । तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह- केवलदसीत्यादि, केवलेन क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी । क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि । नवरं निद्रापञ्चकस्वरूप मिदम् - ९० सुहपडिबोहो निद्दा दुहपडिबोहो य निनिद्दा य । पयला होइ ठियस्सा पलापयला य चकमओ || १|| (निशीथभा० १३३) ९०. सुहपडिबोहोत्ति । यद्यप्यत्र कर्मग्रन्थादौ च निद्रापञ्चकस्वरूपमेवमुक्तं-सुखेन अकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोधः = जागरणं स्वप्तर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा । दुःखेन = कष्टेन बहुभिर्घोलनाप्रकारैः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा निद्रानिद्रा । प्रचलति विघूर्णते यस्यां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य = आसीनस्य भवति । प्रचलातोऽतिशायिनी प्रचलाप्रचला तु चङ्क्रमतः चङ्क्रमणमपि कुर्वतो जन्तोरुपतिष्ठते । ततश्च शूलपाणियक्षमन्दिरे कार्योत्सर्गेणोर्ध्वस्थितो वीरविभुरुपसर्गोपरमानन्तरं क्षणमात्रं यां निद्रां लेभे सा निद्रा वाऽभूत्प्रचला वेति प्रश्नोऽत्र समुद्भवति । ननु किमत्र प्रष्टव्यम् ? ‘पयला ठिओवविट्ठस्स' इति कर्मविपाकवचनात् स्थितस्योपविष्टस्य वा निद्रायाः प्रचलात्वेन निश्ची-यमानत्वादिति चेत् ? सत्यं किन्त्वत्यन्तमप्रमत्तस्य निद्राविजेतुस्तीर्थकृतोऽपि प्रचला सम्भवतीति स्वीकर्तुं मनः कथमुल्लसेत् ? किञ्च तस्या निद्रायाः पादसञ्चारमात्रेण छोटिकामात्रेण वा प्रतिबोधलक्षणं सुखप्रतिबोध्यत्वमपि भवेदेवेति निद्रात्वमपि कथं न निश्चीयेत ? ननु प्रभोर्निद्रायां सुखप्रतिबोध्यत्वलक्षणं निद्रालक्षणमप्यभवदेवेति कथं निश्चेयमिति चेत् ? शृणु-मत्प्रतिबोधकानां पञ्चाचारप्रवीणानामिष्टफलसिद्धिवादविजेतॄणा गुरुपादानां श्रीमतां विजयभुवनभानुसूरीश्वराणामत्यन्तमल्पीकृतनिद्रत्वेन साधनाश्रमानन्तरं कदाचिन्न केवलमुपवेशनावस्थायां, अपि तु स्थानावस्थायामपीषन्निद्रायमाणे लोचने दृष्टे, ततश्च प्रचलालक्षणं तु Jain Education International For Private & Personal Use Only = = www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy