SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अणावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायवेयणिजे खीणअसायवेयणिज्जे अवेयणे निव्वेयणे खीणवेयणे सुभासुभवेयणिज्जकम्मविप्पमुक्के, खीणकोहे जाव खीणलोभे खीणपेजे खीणदोसे खीणदंसणमोहणिजे खीणचरित्तमोहणिजे अमोहे निम्मोहे खीणमोहे मोहणिजकम्मविप्पमुक्के, खीणणेरइयाउए खीणतिरिक्खजोणियाउए खीणमणुस्साउए खीणदेवाउए अणाउए निराउए खीणाउए आउयकम्मविप्पमुक्के, गति-जाति-सरीरंगोवंग-बंधण-संघात-संघतण-अणेगबोंदिवंदसंघायविप्पमुक्के खीणसुभनामे खीणासुभणामे अणामे निण्णामे खीणनामे सुभाऽसुभणामकम्मविप्पमुक्के, खीण उच्चागोए खीणणीयागोए अगोए निगोए खीणगोए सुभाऽसुभगोत्तकम्मविप्पमुक्के, खीणदाणंतराए खीणलाभंतराए खीणभोगंतराए खीणुवभोगंतराए खीणविरियंतराए अणंतराए णिरंतराए खीणंतराए अंतराइयकम्मविप्पमुक्के, सिद्धे बुद्धे मुत्ते परिणिव्वुए अंतगडे सव्वदुक्खप्पहीणे । से तं खयनिप्फण्णे । से तं खइए । निर्दिष्टो द्विविधोऽप्यौपशमिकः, अथ क्षायिकमाह - से किं तमित्यादि । एषोऽपि द्विधा - क्षयस्तन्निष्पन्नश्च, तत्र खए णं ति, णमिति पूर्ववत्, क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षणः, स एव स्वार्थिकेकण्प्रत्यये क्षायिक: । क्षयनिष्पन्नस्तु तत्फलरूप: । तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्याया: संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह- उप्पण्णणाण-दसणेत्यादि । उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञान-दर्शने धरति यः स तथा । अरहा अविद्यमानरहस्यः, नास्य गोप्यं किञ्चिदस्तीति भावः। आवरणशत्रुजेतृत्वाज्जिनः । केवलं सम्पूर्ण ज्ञानमस्यास्तीति केवली। क्षीणमाभिनिबोधिकज्ञानावरणं यस्य स तथा । एवं नेयं यावत् क्षीणकेवलज्ञानावरण: । अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवाऽनावरणः । तथा निर्गत आगन्तुकादप्यावरणाद् राहुरहितरोहिणीशवदेव निरावरण: । तथा क्षीणमेकान्तेनापुनर्भावितया आवरणमस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरण: । निगमयन्नाह - ज्ञानावरणीयेन कर्मणा विविधम् अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त: । एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा घटवद्भूतलादिरूपा पूर्वावस्थाऽनुसन्धीयते, तदा घटाभाववद्भूतलं' ‘पटाभाववद्भूतलं' इत्यादि रूपं ज्ञानं भवत्येव । एवमेवाभिनिबोधिकज्ञानावरणादियुक्तां पूर्वावस्थामपेक्ष्य यदा चिन्त्यते तदा 'क्षीणाभिनिबोधिकज्ञानावरणोऽयं' इत्यादि ज्ञायत एव । ततश्च ‘घटाभाववद्भूतलं' इत्यादि ज्ञानभेदेऽपि यथा भूतलस्य सत्यपि कथञ्चिद्भेदे न महान् भेदः, तथैव प्रस्तुतेऽपि ज्ञेयम् । अत एव सूत्रे केवली' शब्देन केवलज्ञानं यथा सूचितं न तथाऽऽभिनिबोधिकादि किमप्यन्यज्ज्ञानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy