________________
२७६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४३९) से किं तं णोइंदियपच्चक्खे ? णोइंदियपच्चक्खे तिविहे पं० । तं०ओहिणाणपच्चक्खे मणपज्जवणाणपच्चक्खे केवलणाणपच्चक्खे । सेतं णोइंदियपच्चक्खे। सेतं पच्चक्खे।
(सू० ४४०) से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । तं०-पुव्ववं सेसवं दिट्ठसाहम्मवं । (सू० ४४१) से किं तं पुव्ववं ? पुव्ववं -
माता पुत्तं जहा नटुं जुवाणं पुणरागतं ।
काई पच्चभिजाणेज्जा पुव्वलिगेण केणइ ॥११५॥ तंजहा- खतेण वा वणेण वा मसेण वा लंछणेण वा तिलएण वा। सेतं पुव्ववं । इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाक्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधि-मन:पर्याय-केवलाख्यमिति भावार्थ:।
से किं तं अणुमाणे इत्यादि । अनु लिङ्गग्रहण-सम्बन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानम् । तच्च त्रिविधम्- पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि । विशिष्टं पूर्वोपलब्धं, चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत् पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तमित्यादि श्लोकः । यथा माता स्वकीयं पुत्रं बालावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित् तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि, स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रण:, लाञ्छन-मष-तिलकास्तु प्रतीताः । तदयमत्र प्रयोग:मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति । साधर्म्य-वैधर्म्यदृष्टान्तयो: सत्त्वेतराभावादयमहेतुरिति चेत्, नैवम्, हेतो: परमार्थेनैकलक्षणत्वात्, तद्बलेनैव गमकत्वोपलब्धेः । उक्तं च न्यायवादिना पुरुषचन्द्रेण
अन्यथाऽनुपपन्नत्वमानं हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धर्मो दृष्टान्तद्वयलक्षणे ।।१।। ( तद्धर्माविति अन्यथानुपपन्नत्वधर्मो, कथम्भूते सत्त्वासत्त्वे इत्याह- साधर्म्य-वैधर्म्यरूपे दृष्टान्तद्वये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org