________________
श्रीअनुयोगद्वारसूत्रम् [सू०४४२,४४३]
२७७ (सू० ४४२) से किं तं सेसवं? सेसवं पंचविहं पण्णत्तं । तंजहा-कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं ।
(सू० ४४३) से किं तं कजेणं ? कजेणं- संखं सद्देणं, भेरि तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं । सेतं कज्जेणं । लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि क्वचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यति, न कश्चिद्विरोध इति भावः । यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया। तथा चाह
धूमादेर्यद्यपि स्यातां सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ।।१।। ( )
किञ्च, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा ‘लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठादिवत्' इत्यादेरपि गमकत्वं स्यात् । अभ्यधायि च
दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीष्यते । लोहलेख्यं भवेद्वजं पार्थिवत्वाद् द्रुमादिवद् ।।१।। (
) इति । यदि च पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणं हेतोस्वैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति । आह च
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ ( ) इत्यादि ।
अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति। आहप्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्रो न वेति सन्देहाद् युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । __से किं तं सेसवमित्यादि, पुरुषार्थोपयोगिन: परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् । तच्च पञ्चविधम्, तद्यथा- कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हेषितेन अनुमिनुते' इत्यध्याहार:, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवदनुमानमुच्यत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org