________________
२७८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४४४) से किं तं कारणेणं ? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । भाव: । क्वचित्तु प्रथमत: शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या ।
से किं तं कारणेणमित्यादि इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह
रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥१॥ (न्यायमञ्जर्याम् ) इति ।
एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाहतन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, ११६यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तव: समुत्पद्यन्ते तेषां कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, ११७यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा
११६. यथा मृत्पिण्डो घटस्येति । अत्र ‘पिण्ड'शब्दो द्रव्यार्थको ज्ञेयः, ततश्च यथा मृद्रव्यं घटस्येत्यर्थो लभ्यते । अन्यथा घटावस्थायां पिण्डस्याभावेन सत्त्वेनोपयोगाभावाविशेषात् पटस्येवाकारणत्वमेव स्यात् । अत एवाग्रे 'तदा मृदभावे घटस्येव' इत्यत्र वृत्तिकारैः 'मृत्पिण्डाभावे' इत्येवं नोक्तम्, अपि तु 'मृदभावे (= मृद्रव्याभावे)' इत्येवमेवोक्तम् ।
११७. यदि च तन्तवः सर्वथाऽभावीभवेयुरित्यादि । ननु वियोजनकाले पटोऽपि नैव सर्वथाऽभावीभवति, कस्यचिदपि भावस्य सर्वथाऽभावीभवनस्य निषिद्धत्वेन तदापि तन्तुत्वेन पटस्य भावात् । तथा श्रीतत्त्वार्थसूत्रे पञ्चमेऽध्याये 'सङ्घातभेदेभ्य उत्पद्यन्ते' ।।२७।। 'भेदादणुः ।।२८ ।।' इत्यादिना व्यणुकभेदात् परमाणोरुत्पत्तिः कथितैव । ततश्च पटोऽपि कथं न तन्तुकारणमिति चेत् ? न, अभिप्रायापरिज्ञानात् । तथाहि-पटकालेऽपि तन्तूनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org