________________
श्रीअनुयोगद्वारसूत्रम् [सू०४४४]
२७९ मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तव: सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्। एवं वीरण-कटादिष्वपि भावना कार्या । तदेवं यद् यस्य कार्यस्य कारणत्वेन निश्चितं तत् तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । तन्तुत्वावच्छिन्नप्रतियोगिताकाभावो यथा नैव भवति, न तथा वियोजनानन्तरं तन्तुकाले पटस्य पटत्वावच्छिन्नप्रतियोगिताकपटाभावो न भवतीति, पटकाले तन्त्वभावो न भवति, तन्तुकाले पटाभावस्तु भवत्येवेत्यर्थः । यद्वा तन्तुकाले पटः पटत्वेनाभावीभवत्येवेत्यर्थः । अतः पट एव तन्तुपरिणामत्वेन व्यवह्रियते, न तन्तवः पटपरिणामत्वेन, परिणामकालेऽपि विद्यमानस्यैव परिणामित्वात् । एवं परमाणुकाले व्यणुकादीनां व्यणुकादिकाले च परमाणूनां पुद्गलत्वेनाभावो यद्यपि नैव भवति, तथापि परमाणुकाले व्यणुकादीनां व्यणुकादित्वेन तु यतोऽभाव एव, अतो न परमाणुर्च्यणुकादीनां परिणामत्वेन, ट्यणुकादयश्च परमाणोः परिणामित्वेनोच्यन्ते । अत एव न द्वयणुकादीनां परमाणुपरिणामिकारणत्वम् । ननु ‘भेदादणुः' इति सूत्रेण तु ट्यणुकादेः परमाणुकारणत्वमुक्तमेवेति चेद् ? अहो भ्रान्तिः, यतस्तेन सूत्रेण व्यणुकादिभेदस्यैव परमाणुकारणत्वेनोक्तत्वात्। 'यद्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयम्' इति न्यायं कथयद्भिरन्यैरपि महाद्रव्यध्वंसस्यैव लघुद्रव्यजनकत्वमुक्तं, न तु महाद्रव्यस्य। नन्वेवं तु पटस्यापि तन्तुपरिणामत्वं न स्यात् । अयम्भावः-द्व्यणुकादिकाले परमाणूनामभावो मन्तव्य एव, परमाणूनामसङ्ख्येयलक्षणस्यान्तरकालस्य पूर्वं (सू. क्रमांक १०१) कथितत्वात्, स्कन्धभेदात् परमाणोरुत्पत्तिं प्रतिपादयता 'भेदादणुः' इति तत्त्वार्थसूत्रेण भेदात्प्राक् स्कन्धकाले परमाणूनामभावस्य सूचितत्वाच्च । ततश्च यथा व्यणुकादयो न परमाणुपरिणामाः, तथैव पटोऽपि न तन्तुपरिणाम इति चेत् ? न, व्याख्याप्रज्ञप्त्यादिषु परमाणूनां शाश्वतिकत्वस्याप्युक्तत्वात् तदभिप्रायेण द्व्यणुकादिकालेऽपि परमाणूनां भाव एव, न त्वभाव इति न काप्यनुपपत्तिः । इत्थञ्च परमाणूनां परमाणुत्वेनैव नित्यत्वमनित्यत्वं च शास्त्रसम्मतमिति ज्ञेयम् । तच्च कथमित्यन्यत्र न्यायविशारदैर्महोपाध्यायश्रीमद्यशोविजयवाचकैः गूर्जरभाषासन्दृब्धस्य 'द्रव्यगुणपर्यायनो रास' इति ग्रन्थस्य गूर्जरभाषानिबद्धे मत्कृतविवरणे विस्तरः । तन्तूनां तु पटपरिणामित्वे न कोऽपि प्रश्नः, पटपर्यायापेक्षया द्रव्यत्वात् तेषाम् । इदमुक्तं भवति-मृत्पिण्डस्य भिन्नकालीनावस्थारूपत्वाद् घटपर्यायापेक्षया पर्यायान्तरत्वं, न तु द्रव्यत्वं, परन्तु मृदस्तु द्रव्यत्वमेव, घटकालेऽपि विद्यमानत्वात्, मृन्मयत्वेन प्रतीयमानत्वात्। एवमेव पटे चिन्त्यमाने तन्तूनां मृत्स्थानीयत्वमेव निश्चीयते, न तु मृत्पिण्डस्थानीयत्वं, पटकालेऽपि विद्यमानत्वात्, तन्तुमयत्वेन प्रतीयमानत्वात् । ततश्च तन्तूनां पटपर्यायापेक्षया न पर्यायान्तरत्वं, अपि तु द्रव्यत्वमेवेति पटपरिणामित्वमपि निःशङ्कम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org