________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ४४५ ) से किं तं गुणेणं । गुणेणं- सुवण्णं निकसेणं, पुष्पं गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । सेतं गुणेणं ।
( सू० ४४६ ) से किं तं अवयवेणं ? अवयवेणं- महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्घं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, उपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए ।
परियरबंधेण भडं, जाणिज्जा महिलियं णिवसणेणं ।
२८०
सित्थेण दोणपागं, कई च एक्काए गाहाए | | ११६ ।। सेतं अवयवेणं ।
( सू० ४४७ ) से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागाहिं, वुट्ठ अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं ।
इङ्गिताकारितैर्ज्ञेयैः क्रियाभिर्भाषितेन च ।
नेत्र- वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ||११७।। सेतं आसएणं । सेतं सेसवं ।
से किं तं गुणेणमित्यादि, निकषः कषपट्टगता कषितसुवर्णरेखा, तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् । एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत्, एवं लवण-मदिरा- वस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वाद-स्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपाः साधयितव्याः ।
से किं तं अवयवेणमित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिषः अत्र, , तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् । अयं च प्रयोगो वृति - वरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत् । एवं चतुष्पद - बहुपदेष्वपि । गोम्ही कर्णशृगाली । परियरबंधेण भमित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति ।
से किं तं आसएणमित्यादि, आश्रयतीत्याश्रयो धूम - बलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव । आकारेङ्गितादिभिश्च पूर्वं व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव । अत्राह - ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान गतत्वात् किमिहोपन्यासः ? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः । तदेतत् शेषवदनुमानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org