________________
श्रीअनुयोगद्वारसूत्रम् [सू०४४८-४५०]
२८१ (सू० ४४८) से किं तं दिट्ठसाहम्मवं ? दिट्ठसाहम्मवं दुविहं पण्णत्तं। तंजहासामन्नदिटुं च विसेसदिटुं च ।
(सू० ४४९) से किं तं सामण्णदिटुं ? सामण्णदिटुं- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे कारिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । सेतं सामण्णदिढें ।।
(सू० ४५०) से किं तं विसेसदिटुं ? विसेसदिटुं से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिटुं पच्चभिजाणेज्जा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुव्वदिटुं करिसावणं पच्चभिजाणिज्जा-अयं से करिसावणे ।
तस्स समासतो तिविहं गहणं भवति । तंजहा- तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं ।
से किं तं दिट्ठसाहम्मवमित्यादि, दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् । पूर्वदृष्टश्चार्थ: कश्चित् सामान्यत: कश्चित्तु विशेषतो दृष्टः स्यात्, अतस्तद्भेदादिदं द्विविधम्, सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् । तत्र सामान्यदृष्टम्- यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवतिनालिकेरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषात्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, गवादिवत्। बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमाना: पुरुषा एतदाकारवन्त: तथाऽपरोऽप्येकः कश्चित् पुरुषः एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गात्, अश्वादिवदिति । एवं कार्षापणादिष्वपि वाच्यम् ।
विशेषतो दृष्टमाह- जहानामए इत्यादि, अत्र पुरुषा: सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात् । एवं कार्षापणादिष्वपि वाच्यम् । ___तदेवमनुमानस्य त्रैविध्यमुपदी साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- तस्स समासतो तिविहं गहणमित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा- अतीतकालविषयं ग्रहणं ग्राह्यस्य वस्तुन: परिच्छेदोऽतीतकालग्रहणम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org