________________
२८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ___ (सू० ४५१) से किं तं तीतकालगहणं ? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणिं पुण्णाणि य कुंड-सर-णदि-दीहिया-तलागाइं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसि । सेतं तीतकालगहणं ।।
(सू० ४५२) से किं तं पडुप्पण्णकालगहणं? पडुप्पण्णकालगहणं- साहुं गोयरग्गगयं विच्छड्डियपउरभत्त-पाणं पासित्ता तेणं साहिज्जइ जहा-सुभिक्खं वदृइ । सेतं पडुप्पण्णकालगहणं ।
(सू० ४५३) से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविजया मेहा ।। थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥११८॥
वारुणं वा माहिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहासुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं ।
(सू० ४५४) एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा-तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं ।
(सू० ४५५) से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-णदि-दह-तलागाइं पासित्ता तेणं साहिजति जहा-कुवुट्ठी आसी । सेतं तीयकालगहणं ।। प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधं च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति । अब्भस्स निम्मलत्तं गाहा सुगमा । नवरं स्तनितं मेघगर्जितम् । वाउब्भामो त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः। वारुणं ति आर्द्रा-मूलादिनक्षत्रप्रभवम्, माहेन्द्रं रोहिणी-ज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम् उल्कापात-दिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथा- सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति । विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यत: प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति । एतेसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org